________________ 114 तत्त्वार्थाधिगमसूत्रम् (अध्यायः 1 मज्ञानमेव भवति / तदन्मिथ्यादर्शनोपहतेन्द्रियमतेमतिश्रुतावधयोऽप्यज्ञानं भवन्ति // 33 // ___टी०-यथोन्मत्तो वायुपिशाचादिगृहीतः कर्मोदयात्-कर्मणां पुराकृतानां विपाकाद् यदा उपहतेन्द्रियमतिः उपहतेन्द्रिय उपहतमनाश्च संवृत्तो भवति तदा विपरीतग्राहीअन्यथावस्थितवस्तुपरिच्छेदी भवति, यतः स उन्मत्तः अश्वं सन्तं गौरयमित्येवमध्यवस्यति एवं गृह्णात्युपदिशति च, गां च सती अश्वोऽयमित्यध्यवस्यति स्वयमन्येभ्यथोपदिश्यत्यश्वोऽयमिति / सर्वपदार्थेष्वेव चोन्मत्तस्य यदृच्छयोपलब्धिर्न कतिपयेष्वित्येतदुदाहरणभूयस्त्वेन कथयति-लोष्टं सुवर्णमित्यादिना / लोष्टं पृथिवीपरिणाम सन्तं मृदात्मकं सुवर्णमित्यध्यवस्यति, सुवर्ण च लोष्टमित्यध्यवस्यति, कदाचिच्च लोष्टं लोष्टमेवाध्यवस्यति,कदाचिद् वा सुवर्ण सुवर्णमित्येव, तस्योन्मत्तस्यैवमुक्तेनाविशेषेण अयथावदवबोधेन लोष्टं सुवर्णमित्येवं विपरीतमध्यवस्यतः नियतं-निश्चितमज्ञानमेव, कुत्सितमेव तज्ज्ञानं भवतीति / सम्प्रति दार्शन्तिके योजयति-तद्वन्मिथ्यादर्शनेनोपहते. .न्द्रियमनस्कस्य मतिश्रुतावधयस्त्रयोऽप्यज्ञानमेव भवन्ति, एकनयमतसमाश्रयणे तु न सर्ववस्तुपरिच्छेदः, न च तावन्मानं तद् वस्तु, नयमतान्तरेणान्यथापि परिच्छेदात, अतः अज्ञानता त्रयाणाम् , समग्रनयसामग्रीप्रत्ययेनैकैकनयावलम्बी प्रत्ययो निवर्त्यत इति विद्यते हि सर्वनयसामग्रीप्रत्ययो बाधक इति // 33 // . . मामाभिधान भा०- उक्तं ज्ञानम् / चारित्रं नवमेऽध्याये वक्ष्यामः / प्रमाणे हेतुः चोक्ते / नयान् वक्ष्यामः / तद्यथा टी-प्रकृतपरिसमाप्ति सूचयति-उक्तं ज्ञानम्, सम्यग्दर्शनज्ञानचारित्राणीत्युपक्षिप्त त्रयमिति, सम्प्रत्यवसरप्राप्तं चारित्रं, तच्चेह लब्धावकाशमपि नाभिधीयते, यत इहाभिधायापि पुनः संवरप्रस्तावे -- आश्रवनिरोधः संवरः', 'स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः'.(अ० 9, सू० 1-2) इत्यत्र चारित्रद्वारे संवरप्ररूपकेऽभिधातव्यमेवातो ग्रन्थस्य लाघवमिच्छता तत्रैव. नवमेऽभिधास्यते इत्याह-चारित्रं नवमेऽध्याये वक्ष्यामः। 'प्रमाणनयैरधिगमः' (अ०१, सू०६) इति च यदुक्तं तत्र प्रमाणमेतदेव पञ्चविधं सम्यग्दृष्टिपरिगृहीतं ज्ञानं, तदाह-प्रमाणे च प्रत्यक्षपरोक्षे उक्त, नयास्तु पूर्व नोक्ता इत्यतो नयान् वक्ष्यामः, ते च यथा स्वरूपतो व्यवस्थितास्तथा निर्दिश्यन्ते सूत्रम्--नैगमसमहव्यवहारर्जुसूत्रशब्दा नयाः // 1-34 // .. भा०-नैगमः, सङ्ग्रहः, व्यवहारः, ऋजुसूत्रः, शब्द नयभेदाः / चमन इत्येते पञ्च नया भवन्ति // 34 // टी०-नैगमेत्यादि / कृतद्वन्द्वसमासानां पञ्चानामपि प्रथमाबहुवचनान्तता। नया 'नयानत्र ' इति ख-पाठः।