________________ सूत्र 33 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 113 भा०-अत्राह-उक्तं भवता सम्यग्दर्शनपरिगृहीतं मत्यादि ज्ञानं भवस्यन्यथाऽज्ञानमेवेति / मिथ्यादृष्टयोऽपि च भव्याश्चाभत्र्याश्चेन्द्रियनिमित्तानविपरीतान् स्पर्शादीनुपलभन्ते, उपदिशन्ति च स्पर्श स्पर्श इति रसं रस इति, एवं शेषान् , तत् कथमेतदिति ? / अत्रोच्यते-तेषां हि विपरीतमेतद् भवति // 32 // टी-उक्तं भवता-प्रतिपादितं त्वया सम्यग्दर्शनेन जीवादितत्त्वश्रद्धानरूपेण परिगृहीतं मत्यादि ज्ञानं भवति / यथावद् वस्तुपरिच्छेदीतियावत् / अन्यथा तु मिध्यादृष्टिना परिगृहीतं मत्यादिवयं कुत्सितं ज्ञानमज्ञानमेवेति, तदेतन्न मृष्यते, यतः मिथ्येत्यादि / मिथ्यादृष्टयोऽभिगृहीतमिथ्यादर्शनाः शाक्यादयः, मिथ्यादृष्टीनां 1 अनभिगृहीतमिथ्यादर्शनाः, प्रवचनार्थसन्देहिनंश्च त्रिविधा इति / प्रकाराः . ____ अपिः सम्भावने, चः समुच्चये, ते मिथ्यादृष्टयो द्विधा भव्याश्चाभव्याश्च, सेत्स्यन् भव्यः, नैव कदाचित् सेत्स्यति यः सोऽभव्यः / ते मिथ्यादृष्टयो द्विविधा अपि, इन्द्रियनिमित्तानिति इन्द्रियाणि-श्रोत्रादीनि तानि निमित्तं कारणमाश्रित्य अविपरीतान्-यथावस्थितान् स्पर्शादीनिति स्पर्शरसगन्धरूपशब्दान् उपलभन्ते आत्मना, उपदिशन्ति च अन्येभ्यः / कथमुपलभन्ते कथं चोपदिशन्ति ? अवैपरीत्येन, तच्चावैपरीत्यं दर्शयति-स्पर्श-शीतादिकं स्पर्शमिति अविपरीततामाचष्टे, रसं-मधुरादिकं रसमिति एवमविपरीतमेवं शेषान्-शब्दरूपानवैपरीत्येन / तत् कथमेतदिति, बाधके हि प्रत्यये सत्ययथार्थता प्रत्ययान्तरस्य आश्रयितुं शक्या, यथा शुक्तिकाबुया रजतबुद्धिबोधिका शुक्तिकाबुद्धया निवत्यंते, नैवमत्र बाधकं कश्चित् प्रत्ययं पश्यामो यबलान्मिथ्यादृष्टीनां तदयथार्थ ज्ञानं मन्येमहीति ? / अत्रोच्यते-तेषांमिध्यादृष्टीनां यस्मात् तद् विज्ञानं विपरीतमेवेति, अयथार्थपरिच्छेदित्वात् // 32 // कुतः? सूत्रम्-सदसतोरविशेषाद् यदृच्छोपलब्धेरुन्मत्तवत् // 1-33 // टी-सदसतोरित्यादि / सद्-विद्यमान असद्-अविद्यमानं तयोः सदसतो:विद्यमानाविद्यमानयोः अविशेषाद्-यथावदवबोधाभावाद , विद्यमाने हि पदार्थ उत्पादादिरूपेणान्यथावबोध एकनयाश्रयेणेति, अविद्यमानेऽपि ललाटदेशाध्यास्यात्मा सामस्त्येन हृदयाधिष्ठानो वा, एवं सदसतोरविशेषादयथावबोधात् तदज्ञानं, यदृच्छोपलब्धरिति अनालोचिता अर्थोपलब्धिस्तस्या यदृच्छोपलब्धेः स्पर्शादिपरिज्ञानं भवति, उन्मत्तस्येव / / भा०-यथोन्मत्तः कर्मोदयादुपहतेन्द्रियमतिविपरीतग्राही भवति / सोऽश्वं _ गौरित्यध्यवस्यति गां चांश्व इति लोष्टं सुवर्णमिति सुवर्ण लोष्ट मिथ्या अज्ञानित्वे हेतुः 2 इति लोष्टं च लोष्ट इति सुवर्ण सुवर्णमिति तस्यैवभाविशेषण ___ लोष्टं सुवर्ण सुवर्ण लोष्टमिति विपरीतमध्यवस्यतो नियत१'चाश्व इति' इति घ-पाठः, 'चाश्वमिति' इति ग-पाठः /