________________ 184 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 सामर्थ्याद गतेरेव, एकसमयपरिमाणगतिकालोत्तरभाविनाऽवच्छेदेनोत्पद्येत, तत्रापि वक्रया श्रेण्योत्पद्यमानः समयद्वयपरिमाणगतिकालोत्तरभाविनावच्छेदेनोत्पद्येत, अत्र च वक्रशब्दोप्युच्चरितो विग्रहशब्दस्य, यदि च विग्रहोऽपि वक्रमेव वक्ष्यते पुनरुक्तता स्यात्, सामानाधिकरण्यं च द्विसामायिकशब्देनानुपपन्नमेव स्याद् विग्रहशब्दस्य, तस्माद् वक्रमत्र साक्षादुपातमेकतो वक्रा उभयतो वक्रेति, विग्रहशब्दश्चावच्छेदवचन इति न किञ्चिद् विरुध्यते / / ननु चात्र सूत्रे त्रिवक्रा गतिर्नोपात्तैव, तद् कथं सूत्रकारेणोपन्यस्ता प्रवचनाद् बहिर्वर्तजिवक्रानुपादाने मानेति ? / उच्यते-यद्यपि गतिपरिमाणसूत्रे नोपात्ता तथाऽप्यर्थतस्तत्प्र व स्ताव एवोपरिष्टादभिहिता, यथा "अंपज्जत्तसुहुमपुढविक्काइए णं भंते ! अधोलोगखेत्तणालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए उद्दलोगखेत्तणालीए बाहिरिले खेत्ते अपज्जत्तसुहुमपुढवीकाइयत्ताए उववज्जेज्जा, सेणं भंते ! कइसमइएणं विग्गहेणं उववज्जेज्जा ? गोयमा ! तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्जेज्जा"। चत्वारश्च समयास्त्रिवक्रायामेवेति अतो न दोषः, तथा पञ्चसमयाऽपि गतिः सम्भवति, न चोपात्ता सूत्रे, यः प्राणी महातमःप्रभापृथिवी विदिग्व्यवस्थितः कालं करोति ब्रह्मलोकविदिशि चोत्पद्यते तस्य पञ्चसमया गतिरवश्यं भवति, न च कचित् प्रतिबद्धा, अत्र केचिद वर्णयन्ति-अस्ति सत्यं सम्भवः पञ्चसमयाया गतेने पुनस्तया कश्चिदुत्पद्यते जन्तुरित्यतो न प्रतिबद्धेति / अथवा विद्यमानापि नोक्तेयं यथा चतुःसमयेति / इयांस्तु विशेषः-चतुःसमयाऽर्थतोऽभिहिता सूत्रान्तरे, पञ्चसमया तु नार्थतो न सूत्रत इति, किं पुनः कारणं सङ्ग्रह कारेण चतस्र एव गतय उपात्ताः, न पुनश्चक्रवालादयोऽपीति ? / उच्यतेपञ्चसमयानु नुः एताः प्रायः कालपरिमाणमङ्गीकृत्य एतास्वेव चतसृषु पतन्त्यतो नोपात्ताः पादाने हेतुः " पार्थक्येन, तथा भूयसा भवन्ति जीतानामेताः पुद्गलानां तु प्राय इत्यतोऽपि नादृताः, पारमर्षप्रवचनवेदिनस्तु सूत्रं परिज्ञास्यन्ति सर्वथा, वयं प्रकृतमेव प्रस्तुमः / सम्प्रति गतीनामियत्तामावेदयन्नाह-एवमेता ऋज्वादयश्चतुःसमयाः परा यासां ताश्चतु:समयपराश्चतुर्विधा एव गतयो भवन्ति, परतः पञ्चसमयादिका न सम्भवतीत्यर्थः / सर्वत्र च पूर्वशरीरविच्छेदाविच्छेदौ मण्डूकजलूकागतिभ्यां भावनीयाविति, आसां च मध्ये नारकादीनामविग्रहैकद्विविग्रहा एव भवन्ति न तु त्रिविग्रहाः / एकेन्द्रियाणां त्रिविग्रहाश्वेतराश्च, किं पुनः कारणमेकसमयैवाविग्रहा भवति न द्विसमया त्रिसमया वा तावदसौ मृतो जात्ववकं यावत् समयद्वयं कालतः पूर्णमेव समयत्रयमपीत्यत आह-प्रतिघाताभावात्। को वा नियमोऽवग्रहत्रअविग्रहे हेतुः - यात् परतोऽन्यो विग्रहो नास्तीति चत्वारि पञ्च वा वक्राणि विधाय किमिति 9 नोत्पत्तिस्थानमाप्नोतीति ? / उच्यते-विग्रहनिमित्ताभावाच, येन हि 1 अपर्याप्तसूक्ष्मपृथ्वीकायिको भदन्त / अधोलोकक्षेत्रनाडया बहिःक्षेत्रे समवहतः समवहत्य यो भव्य ऊर्वलोक. क्षेत्रनाडया बहिःक्षेत्रे अपर्याप्तसूक्ष्मपृथ्वोकायिकतयोत्पद्येत स भदन्त | कतिसामयिकेन विग्रहेणोत्पद्येत? गौतम / त्रिसामयिकेन वा चतुःसामयिकेन वा विप्रहेणोत्पद्येत /