________________ सूत्र 29 ]. स्त्रोपज्ञभाष्य-टीकालङ्कृतम् 185 यत् स्थानमाप्तव्यमृज्वा गत्या स तदविश्राम्यन्नन्तराले स्वभावादेव केनचिदप्रतिहतः प्रतिघातहेतुना तदवश्यं प्राप्नोति, किं तत्र द्वितीयादिसमयकल्पनया ? अतः प्रतिघाताभावात् अन्तराले तस्यैकसमयैव भवति / अपरे वर्णयन्ति-सिद्धयमानगतेरेव प्रतिघाताभावः, प्रतिघातकं हि कर्म, तदभावादित्यर्थः, तथा जन्तुनकविग्रहया गत्या यत् स्थानं यातव्यं तदसौ समयद्वयेनैव प्राप्नोति, उपपातक्षेत्रवशात् , न ततोऽपि श्रेण्यन्तरमाकामयतीति, अतो विग्रहनिमित्ताभावादुच्यते विग्रह निमित्त उपपातक्षेत्रवश इति, एवं द्वित्रिविग्रहयोर्योजनीयम् / अन्ये प्ररूपयन्तिगतेनिमित्तं कार्मणशरीरं, तत्सन्तानव्युच्छेदश्च विग्रहनिमित्ताभाव इति॥ एवं गतिनियममावेद्य अधुना विग्रहशब्दार्थ पर्यायान्तरैरादर्शयति-विग्रहणं-विग्रहः-वक्रितं-कुटिलमित्यर्थः / _ पुनरप्यपरितुप्यन् विशेषप्रतिपिपादयिषया आह-विग्रहोऽवग्रहः श्रेण्यविग्रहशब्दस्य पर्याया वन्तरसङ्क्रान्तिरित्यनान्तरम् / विग्रहः कः ? अवग्रहः, ऋजुताया अवच्छेद इत्यर्थः, तथा श्रेणेरन्या श्रेणिः श्रेण्यन्तरं, तत्र सङ्क्रान्तिस्तदवाप्तिरिति, आलेखिते चतुरस्राकाशप्रतरे बिन्दुकश्रेणिभिः समस्तमिदगनुभवमारोहति / एवमेपामर्थो विग्रहशब्दार्थादनान्तरमर्थराशिरित्युपसंहृतः। अथेदानीं पुद्गलानामप्यतिदेशं कुर्वल्लाँधवार्थमाह-पुद्गलानामप्येवमेव / यथा संसारिणां चतस्लो गतयः सम्भावितास्तथा पुद्गलानामपि परमाण्वादीनां विस्रसाप्रयोगाभ्यामाभावनीयाः / अन्तर्गताक्यं कालनियमो विग्रह नियमश्च प्रतिपादितः। अधुना भवस्थानामेव शरीरिणां या गतिः सा कथमिति ? उच्यते-शरणामित्यौदारिकाद्यपेक्ष्योक्तम् , अन्यथाऽन्तरगतावपि कार्मणशरीरयोगाद् वपुष्मानेवेति न साधः स्यात् / चशब्देनान्तर्गतिवर्तिनो जीवाः समुच्चीयन्ते पुद्गला वा, शरीरिणां च जीवानामेव गतिर्मवति विग्रहवती चाविग्रहा च, न कश्चिद् भेदः। सविग्रहाविग्रहसम्भावनायो . प्रयोगपरिणामवशादिति गतेः कारणमाह / स्वप्रयत्नापेक्षो वाऽसौ छ तथा गच्छति परप्रयत्नापेक्षो वा कृष्यमाण इति प्रयोगपरिणामवशात् उच्यते / परिणामो विस्रसास्वभावः प्रयत्ननिरपेक्षस्तद्वशाद् वा तथा गच्छति / अथवा प्रयोग एव परिणामस्तद्वशादिति शरीरिणामप्येवमेवेत्यतिदिष्टम् , अतस्तस्य देशापवादः प्रदर्यतेम तु तत्र विग्रहनियम इति / नैव तत्र-शरीरिषु विग्रहा नियम्यन्ते अल्पे वा बहवो वा यथोक्तविग्रहेभ्य इति // 29 // भा०-अत्राह-अथ विग्रहस्य किं परिमाणमिति ? / अत्रोच्यते-क्षेत्रतो भाज्यम् , कालतस्तु / / टी-अत्राहेत्यादिः सम्बन्धग्रन्थः / अविग्रहवद्गतिविचारग्रस्तावे पर आहअथ विग्रहस्य किं परिमाणमिति ? / अथेत्यनेन पूर्व क्रियानन्तर्यमावेदयति, विग्रहोवकं तस्य किं परिमाणं, प्रमाणमित्यर्थः, कियता कालेन विग्रहो जायत इति प्रश्नार्थः, अत्र प्रश्ऽभिधीयते निर्णय इत्यत आह--क्षेत्रतो भाज्यम् , कालतस्तु / DESDE