________________ श्रीपरमात्मने नमः। श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोडार-ग्रन्थाङ्के श्रीउमास्वातिवाचकवर्यविरचितम् तत्त्वार्थाधिगमसूत्रम् स्वोपज्ञाः सम्बन्धकारिकाः (श्रीदेवगुप्तसूरि-श्रीसिद्धसेनगणिप्रणीतटीकास्ययुताः) सम्यग्दर्शनशुद्धं, यो ज्ञानं विरतिमेव चाप्नोति / दुःखनिमित्तमपीदं, तेन सुलब्धं भवति जन्म // 1 // आर्यो श्रीदेवगुप्तसूरिकताटीका वीरं प्रणम्य सर्वज्ञ, तत्त्वार्थस्य विधीयते / - टीका संक्षेपतः स्पष्टा, मन्दबुद्धिविबोधिनी // अनुष्टुप् व्याख्या-सम्यगईत्प्रवचनमधिगम्य कालसंहननश्रद्धायुरादेः परिहाणिमवलोक्य सत्वानुकम्पया समासतो मोक्षमार्गमुपदेष्टुकाम आचार्य इदमाह-सम्यग्दर्शनशुद्धं यो शानं विरतिमेष चामोति / अत्र सम्यग्दर्शनशुद्धमिति कतरो विग्रह आस्थीयते ? यदि तावत् सम्यग्दर्शनेन शुद्धमिति करोति करणे तृतीया, परश्वादीनामिव प्रा निर्वृत्तिर्वक्तव्या; उत कर्तरि, तदा दर्शनज्ञानयोरमेदाद् आत्मनो, य आमोतीत्ययुक्तम् / अथ सम्यग्दर्शनायेति तादर्थे चतुर्थी, दार्विव यूपाय, प्रागेव दर्शनात् शुद्धं ज्ञानम्, अवाप्तज्ञानस्य च केवलिन इव किं दर्शनेन ? उत सम्यग्दर्शनात् हेतौ पञ्चमी, स्वयंसम्बुद्धादिषु विरुध्यते, तेषां हि झगित्येबज्ञान न हेतुक्रममपेक्षते। अथ सम्यग्दर्शने शुद्धमिति निमित्तसप्तमी, चतुर्थीपक्षदोषः। तस्माद वक्तव्योऽत्र समाधिः / यथेच्छसि तथाऽस्तु / ननूक्तं दोषभूयस्त्वम् / नैते दोषाः / करणे तावद् माया-लक्षणम् यस्याः पादे प्रथमे, द्वादश मात्रास्तथा तृतीयेऽपि / मटादश द्वितीये, चतुर्थक पञ्चदश साऽऽयो /