________________ तत्त्वार्थाधिगमसूत्रम् [ श्रीदेवगुप्तवक्ष्यमाणा निर्वृत्तिः "तनिसर्गादधिगमाद्वा" (अ० 1, सू०३) इति / कर्तर्यपि,अत एव आमोतीति युक्तम्, आत्मा हि सम्यग्दर्शनी सलिलमिव स्वच्छतामन्यांज्ञानावस्थामामोतीति वक्ष्यते / अवश्यं च य इति कर्तुनिर्देशः कर्तव्यः, स युपायैरात्मानं शोधयतीति / चतुर्थ्यामप्यधिगमामिप्रायः, नैसर्गिकाद् अवाप्तश्रद्धोऽध्ययनादिभिराधिगमिकमामोति. तदर्थमिति, शुद्धिकारणं तु शुद्धमध्ययनादिकाले / पञ्चम्यामपि, स्वयंसम्बुद्धादिषु निसर्गसम्यग्दर्शनहेतुकमेव तत्, वक्ष्यति हि "अपरोपदेशो निसर्गः" इति, तेषां हि परोपदेशमन्तरेण क्षयोपशमादिलब्धिभ्यः समीहमानानामुत्तरकालं प्रागिव द्राग् उत्पद्यते ज्ञानम् / सप्तम्यामपि सत्सप्तमी, सति हि सम्यग्दर्शने शुद्धं ज्ञानमन्यथा सर्वशुद्धप्रसङ्ग इति / अधिकरणे वा, यथा आकरे शुद्धानि भाण्डानीति / एवमन्येऽप्याक्षेपपरिहारमार्गाः सन्ति, प्रसङ्गभयात् तु नाद्रियन्ते / तृतीयापक्षः पुनरत्र ज्यायान् / सम्यग्दर्शनेन शुद्धमिति "कर्तृकरणे कृता" (पाणिनिः 2 / 1 / 32) इति समासः। तत्पूर्वकमित्यर्थः, दर्शनमूलत्वाच्च श्रेयसस्तेन शुद्धमित्युच्यते / उक्तश्चायमर्थः प्रवचने "भ्रष्टेनापि च चारि-त्राद् दर्शनमिह दृढतरं ग्रहीतव्यम् / सिध्यन्ति चरणरहिता, दर्शनरहिता न सिध्यन्ति // " आर्या न च श्रुतमधीयानस्याध्ययनादिभ्योऽधिगमसम्यग्दर्शनावाप्तिरिति कृत्वा ज्ञानशुद्धंदर्शनमाशकितव्यम्,प्राग दर्शनादज्ञानमेव / तदुक्तं च प्रवचने- "द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिथ्ये"ति। न चाशुद्धाशये भैषजमिव श्रुतमात्मलाभ लभते / एतेनाशयशुद्धौ तस्यैव सम्यक्त्वेन विपरिणामो जायत इति व्याख्यातमेव / श्रुतमेवाशयशोधनमिति चेत्, न, अभव्यानामध्ययनादिक्रियासम्भवेऽपि दर्शनासम्भवात, वक्ष्यति हि, सम्यग्दर्शनपरिगृहीतं मत्यादि ज्ञानमन्यथा त्वज्ञानमेवेति / भवति चान्यथापि पदार्थाध्ययनमात्रं, न तु रुचिं विरहय्य दर्शनम्, अवश्यं प्रागाशयविशुद्धिरेष्टव्या। य इति जन्मवतः कर्तुरुद्देशः / ज्ञानं पञ्चप्रकारं वक्ष्यमाणम् / तत्राघत्रयं व्यभिचारित्वादिष्यते तस्य विशेषणं, उत्तरं तु द्वयं शुद्धत्वादेव न, दैवरक्ता हि किंशुकाः। विरमणं विरतिव्रतं संयमश्चारित्रमित्यर्थः / साऽपि सम्यक्पूर्विकैव पञ्चतया वक्ष्यते / अत्र किं सम्यग्दर्शनशुद्धा विरतिरिष्यते, उत ज्ञानशुद्धा ? उभयथाऽप्यदोषः, कारणकारणत्वेन दर्शनशुद्धा कारणत्वेन ज्ञानशुद्धा। वक्ष्यति हि, “विरतिर्नाम ज्ञात्वाऽभ्युपेत्याकरणम्" (अ०७,सू०१, भाष्यम् )इति / इत्थं चेयं विरतियदुत दर्शनज्ञानशुद्धाशयस्वामिनी, इतरथा तु मार्जारसंयमकल्पा स्यात्, एतच्च सच्चरित्रमधिकृत्य वक्ष्यति "उत्तरलामे तु नियतः पूर्वलाभः" (अ० 1, सू० 1, भा० ) इति / तस्मात् त्रितयमप्येतत् सम्यक्पूर्वकं निःश्रेयसाय कल्पत इति साधूपदेशः / एवकारोऽवधारणे, दर्शनज्ञानविरतय एव जन्मनः सुलब्धत्वे कारणं, नोनम्, अधिकमप्यतो नास्त्येवेति / एकतमवत तु जन्मान्यजन्मापेक्षया सुलब्धमिव सुलब्धं, वक्ष्यति चैषां मोक्षहेतुत्वम् / तच्चावधारयति, त्रयमेवैतत् नोनमधिकंवा मोक्षायेति / तच्च सप्रयोजनं सूत्रेऽभिधास्यते, 1 मतिश्रुतावधयो विपर्ययथ (अ० 1, सू. 32) इति सूत्रस्य भाष्ये / 2 'ज्ञानं भवत्यन्यथाऽज्ञानमेवेति' इति क-पाठः।