________________ सूरिकतटीका ] सम्बन्धकारिकाः चशब्दो ज्ञानमिति भिन्नवाक्यत्वाद् विरतिं चेति सम्बन्धाय, एकैकस्य वा निर्जराहेतोः प्राप्तौ जन्म सुलब्धमिति विकल्पार्थः / तच्च सुलन्धमिवेत्युक्तं, आप्नोतीत्यवस्थितं स्वतन्त्रं कर्तारं दर्शयति, दर्शनादित्रयमाप्नोति लभतेऽधिगच्छतीत्यर्थः // दुःखानिमित्तमपीदं तेन सुलब्धं भवति जन्म ॥-दुःखयतीति दुःखं परितापयतीत्यर्थः, तच्च शारीरं मानसं च वक्ष्यमाणं, द्वन्द्वभूयिष्ठत्वात् संसारो वा दुःखं, निमित्तं हेतुः प्रसूतिराधारः / दुःखानां निमित्तं, दुःखं चास्य निमित्तम्, तत्र दुःखानां निमित्तमिति जन्मनि सति शरीरमनसी तद्भवं च दुःखम् , अत एवोक्तमन्यत्रापि-"नाशरीरं प्रतपन्त्युपद्रवाः" इति / उत्तरेषामपि निमित्तं जन्म, तद्वान् दुःखितः सन्नुपप्लुतचेताः क्लीबोऽसम्यग्विषहमाणः संसारस्वभावमजानन् तदितरप्रतिकारान् अभीप्सुरशुभमारभते, ततः कर्मपाशावपाशितः पुनरपि दुःखभागी भवति / संसारपक्षेपि दुःखस्य-संसारस्य निमित्तम् , मूढो ह्येकजन्मनि बहूनि जन्मान्तरवीजान्युपचिनोति / एतेन दुःखं चास्य निमित्तमिति स्थितम् / अपिशब्दो दुःखानां दुःखस्य वा निमितमित्यस्मिन् पक्षेपि [न] दुःखनिमित्तमिति विकल्पयति, कथम् 1 षट् पुरुषप्रकृतीर्वक्ष्यति / तत्र यदा संसारो दुःखं तदाऽऽद्यचतुष्टयस्य मूढत्वात् तन्निबन्धनम् , उत्तरयोस्तु अवाप्तदर्शनादित्रयीकयोरेतदेव परमार्थसाधनं चरमं चेति न दुःखनिमित्तम् , यदा तु शारीरादिदुःखपक्षों दुःखं चास्य विमिरमित्ययं वाच्योऽर्थस्तदा सर्वेषामेव जन्मवतां दुःखनिमित्तमित्ययं विकल्पः / इदमिति जन्मबहुत्वेऽपि मानुषं जन्म प्रत्यक्षं प्रदर्शयति, नह्यन्यत्र विरतिलाभोऽस्ति / कथम् ? नरकेषु तावद् भूयसा दुःखेनाजस्रमनुतप्तदेहमनसामशरणानामत्यन्तोपहतसंक्लिष्टपरिणामानां हितश्रवणमपि नास्ति, कुतस्तदुपदेशकारणम् 1 तिरश्चामप्यत्यन्तमूढमनसामकरुणपराधीनाशरणजीवितानां सोभिभूतजन्मनामाभियोग्यादिदुःखानुबद्धदेहमनसां हितोपदेशश्रवणश्रद्धाविरती कुतः 1 तथा देवानामपि कृच्छ्रावाप्तविषयसुखलवाखादापहतचेतसामनवाप्तहितश्रवणानां केषांचिच्च कथंचिद्धितश्रवणसंभवेऽप्यवश्यभोगकर्माधीनत्वात् अकमभूमित्वाच विरत्यभाव एव / मानुष्येऽपि देवकुर्वाधकर्मभूमिषु भोगपरत्वात् , कर्मभूमिषु चान्त्यावसायिम्लेच्छादिष्वत्यन्तनिघृणत्वात् , आर्येष्वपि चोपदेशकश्रद्धाद्यभावात् कुतो विरतिः 1 विकलं चेदं त्रिकमसाधनमित्यतः सर्वापवादशुद्धं त्रितयलाभोपायक्षममिदमित्याचार्यः खजन्मनिदर्शनेन प्रत्यक्षमाह-तेनेति / यत्तदोर्नित्यसम्बन्धाद् यच्छब्दोद्दिष्टमेव कर्तारं निर्दिशति / सुलब्धमनिन्धं श्लाघ्यं ज्यायः / सति हि संसारेऽवश्यम्भावि जन्म, तच्च दर्शनादित्रयसहितत्वात् मोक्षसाधनं यदि भवति, ततः सुलब्धम् ; अन्यथा हि क्षुद्रजन्तूनामिव मरणायैवेति दर्शयति / भवतीति स्फुटार्थम् , जायतेऽस्मिन्निति जन्म, तच्च मानुषमिस्युक्तम् / अथवा भवति जन्मेति संसारास्तित्वं दर्शयति / आत्मा हि स्वकृतकर्मसन्तानानुस्यूतः सन् धावति भवाद् भवान्तरं, तस्य पर्यटतो भवति जन्म / एतेनैकान्तनित्यादीनां 'शरीरादिदुःखं चास्य' इति ख-पाठः /