________________ 356 तत्त्वार्थाधिगममूत्रम् [ अध्यायः 5 __ भा०-तत्र स्पर्शोऽष्टविधः-कठिनो मृदुर्गुरुर्लघुः शीत उष्ण स्पोदीनां प्रकाराः स्निग्धो रुक्ष इति / रसः पञ्चविधः-तिक्तः कटुः कषायोऽम्लो मधुर इति / गन्धो द्विविधः-सुरभिरसुरभिश्च / वर्णः पञ्चविधः-कृष्णो नीलो लोहितः पीतः शुक्ल इति // 23 // किश्चान्यत् टी-तत्रेत्यादि / स्पर्शादीनामनन्तपर्यायत्वेऽपि मौलभेदप्रसिद्धयर्थः कठिनप्रमुखस्पोमिदं प्रक्रियते, कठिनादयो विद्वदङ्गनापालादिप्रतीतास्तथापि सुप्रयुक्तका दीनां लक्षणान रिभिरमूनि लक्षणानि प्रत्येकं प्रकाश्यन्ते, अनमनात्मकः कठिनः, सोन्नतिलक्षणो मृदुः, अधोगमनहेतुर्गुरुः, प्रायस्तियमूर्ध्वगमनहेतुलेघुः, वैशद्यकृत् स्तम्भनस्वभावः शीतः, मार्दवपाककृष्णः , संयोगे सति संयोगिनां बन्धकारणं स्निग्धः, तथैवावन्धकारणं च रूक्षः, इतिशब्दः परिस्थूरस्पर्शभेदेयत्ताप्रतिपादनार्थः / अत्र च स्निग्धरूक्षशीतोष्णाथत्वार एवाणुषु सम्भवन्ति, स्कन्धेश्वष्टावपि यथासम्भवमभिधानीयाः / श्लेष्मशमनकृत् तिक्तः, श्लेष्मभेदपाटवकृत् कटुः, अन्नरुचिस्तम्भनकमो कषायः, आश्रवणक्लेदनकदम्लः, ह्रादनबृहणकन्मधुरः, लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे / सुरभिश्चन्दनोशीरकश्मीरजादीनाम्, असुरभिर्लसुनविष्ठादीनाम्, सौमुख्यवैमुख्य कारित्वात् साधारण इत्येके, तन्न, उभयो. रन्तीतविषयत्वात् / कृष्णादयो वर्णाः क्रमेणाञ्जनकपत्ररुधिरकाञ्चनशङ्खादिषु विभावनीयाः, संसर्गजाः सारङ्गादयः / एवमेतद् द्रव्यमेव स्पर्शादिभेदेन भिद्यते त्वगादीन्द्रियप्राप्तमनेकशक्तियुक्तत्वाद् द्रव्यनयाभिप्रायः, पर्यायस्य तु स्पर्शादय एव, न द्रव्यं, तदग्रहे तबुद्धधभावादिति // 23 // किश्चान्यदित्यनेन सम्बन्धयति / असकलरूपद्रव्यधर्मनिर्देशादनेनेदमुच्यते-किश्चान्यदिति / पुद्गलानां न केवलं स्पर्शादयो धर्माः, शब्दादयश्चेति दर्शयतिपगलानां सूत्रम्-शब्द-बन्ध-सौम्य-स्थौल्य-संस्थान-भेद-तमश्छायाशब्दादिधर्माः तपोद्योतवन्तश्च // 5-24 // टी-शब्दादयः कृतद्वन्द्वा मतुपा निर्दिश्यन्ते पुद्गलपरिणामप्रदर्शनाय / चशब्दः पुद्गलानुकर्षगार्थः॥ भा०-तत्र शब्दः षड्विधः-ततो विततो धनः शुबिरः संघर्षो भाषा इति॥ टी-तत्र शब्द इत्यादि भाष्यम् / तत्रेति तेषु शब्दादिषु पुद्गलपरिणामेषु शब्दस्तावदेवस्वरूपः, विवक्षावशादन्वयव्यतिरेकाभ्यां प्रधानगुणभावतया सामान्यविशेषवतोऽर्थस्याभि 1 'सुरभिश्चामुरभिश्च' इति क-ख-पाठः। 2 . ०रो घर्षो भाष इति ' इति घ-पाठः /