________________ सूत्र 24 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 357 धायकः प्रत्यर्थनियतसङ्गतवर्णादिविभागवान् धनिरेव शब्दः, न स्फोटः, अनादिवृद्धपरम्परासङ्केतप्रसिद्धिवशात् प्रत्यर्थनियतत्वम्, परस्परापेक्षातः स्वाभिधयैकार्थकारितया शिविकोद्वाहकवत् सङ्गतत्वम्, वर्णपदवाक्यानि विभागः, तद्वान् ध्वनिरेव च शब्द:-श्रोत्रग्रहणः, न ___स्फोटः शालातुरीयमतानुसारिवैयाकरणनिकायपरिकल्पितः, तेषां हि शब्दस्य ध्वनिरुचरितः स्फोट किलाभिव्यनक्ति, तस्मादभिव्यक्तादर्थप्रतीतिरिति, स्फोटाद भिन्नत्यम् असम्बन्धमेतत, अनित्यत्वापत्तेः, स्फोटस्य अभिव्यज्यमानत्वान्मूलकी लोदकादिवत्, अर्थप्रतीतिहेतुत्वात्, प्रदीपादिवत्, प्रदीपादिनित्यत्वे वा दृष्टान्ताभावः, न च स्फोटमभिव्यञ्जन्ति ध्वनयः, अचाक्षुषप्रत्यक्षत्वात् गन्धवदित्यतो ध्वनिरूपः शब्दः स्मृतेः कारणम्, सर्वस्य शब्दस्य प्राग्व्युत्पन्नसङ्केतवशादर्थप्रत्यायनम्, ततश्च पूर्वो. पलब्धार्थानुस्मरणात् स्मात शब्दविज्ञानम्, न चान्यापोहमात्रं शब्दार्थः, विधिनिरपेक्षस्य व्यतिरेकस्यात्राप्रसिद्धरन्वयस्य च व्यतिरेकशून्यस्यानुपलब्धेः, परस्परापेक्षाभ्यामन्वयव्यतिरेकाभ्यां सर्वत्रार्थाधिगतेः व्यतिरेकस्यैव प्राधान्यमित्ययुक्तम्, तथाचाह दत्तकभिक्षुरेष- "अर्थान्तरापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इच्युच्यते" / हिशब्दो यस्मादर्थे / यथा वृक्षशब्दोऽवृक्षशब्दनिवृत्ति स्वार्थे कुर्वन् स्वार्थ वृक्षलक्षणं प्रत्याययतीत्युच्यते, एवं च निवृत्ति विशिष्टं वस्तु शब्दार्थः, न निवृत्तिमात्रम्, अलक्षणीयमेव च स्यानिवृत्तिमात्रमवस्तुत्वात खरविषाणकुण्ठतीक्ष्णतादिवर्णनावत्, अत्र च न प्राग् विधिना घटं गृहीत्वा पश्चादन्यापोह करोति, नाप्यन्यापोहं कृत्वा पश्चाद् घटं कालभेदेन गृह्णाति, क्रमेण हि ग्रहणे हसिष्ठत्वात् पणिकत्वाच सर्वभावानां ध्वनेानस्य च न युक्तं व्यापारद्वयानुष्ठानम्, सन्तानाचेन तदयुतमवस्तुत्वात्, एवं तर्हि घटग्रहणमन्यापोहश्च युगपदुभयं सिद्धम्, यथा सवितुरुदये सन्तमसघिदलनं स्वरूपप्रकाशनं च स्वभावात्, एवं सत्युभयमभिधेयं सामान्य विशेषश्चेत्यवशेनापि प्रतिपत्तव्यमन्यापोहशब्दार्थवादिना, अन्वयव्यतिरेकयोस्तुल्य क्षत्वाद् विधेयमपि प्रधानमेवास्तु, नहि द्वयोरर्थयोर्धवखदिरवद् युगपदुपात्तयोरेकस्य गुणभावकल्पना श्रेयसी // ननु चान्वयस्य प्राधान्येऽभ्युपेयमाने प्रयत्नानन्तरीयकत्वमव्याप्तसपक्षं सन्नैवानित्यत्वं गमयेत्, केन वेदमुक्तं-व्याप्तसपक्षं गमयति अव्याप्तसपक्षं न गमयतीति, एतावत् तु उच्यते-अन्वयनिरपेक्षो न गमयति व्यतिरेकः, नापि व्यतिरेकनिरपेक्षोऽन्धयःप्रतिपादकोऽर्थस्य, परस्परापेक्षतायां च शिषिकोद्वाहकादिवत् सर्वत्र प्राधान्यं, कचिद् विवक्षावशात् वाऽन्यतरस्य गुणप्रधानकल्पनेति / यथाऽऽह-द्वादशशतिकायाम् “यदप्युक्तमप्रसक्तस्स किमर्थ प्रतिषेध इति, नैपैतत्, प्रतिषेधमात्रमुच्यते, किन्तु तस्य वस्तुनः कश्चिद् भोगार्थान्तरनिवृत्त्या लोके गम्यते यथा विषाणित्वादनश्व इति, न चाक्षिप्तो विशेषः, साक्षादभिधीयमानत्वात्", यथैव सामान्यमुच्यते तथा विशेषोऽपीत्युभयमत्र मुख्यं वाच्यमित्यतः सामान्यविशेषात्मकमेवाभिधेयम् / शब्दश्च - 1 'वृक्षशब्दः' क-ख-योर्नास्ति। 2 'वर्णनवत्' इति क-पाठः /