________________ 358 तत्वार्थाधिगमसूत्रम् [ अध्यायः 5 पुद्गलद्रव्यपरिणामः,तत्परिणामता चास्य मूर्नत्वात् ,मूर्तता च द्रव्यान्तरविक्रियापादनसामध्यात् पिप्पलादिवत्, ताड्यमानपटहतलस्थकलिंचादिप्रकम्पनात्, तथा शङ्खादिशब्दानामतिमात्र . प्रवृद्धानां श्रवणबधिरीकरणमामयम्, तच नाकाशादावमर्तेऽस्ति, तथा शब्दस्य पुद्गलत्वे व प्रतीपयायित्वात् पर्वतप्रतिहताश्मवत, द्वारानुविधायित्वादातपवत्, संहाहेतवः रसामर्थ्यांदगुरुभूपवन, वायुना प्रेर्यमाणत्वात् तृणपर्णादिवत्, सर्वदिग्ग्राह्यत्वात् प्रदीपवन, अभिभवनीयत्वात् नारायगृहादिवन, अभिभावुकत्वात् मवितृमण्डलप्रकाशवत, महता हि शब्देनाल्पोभिभूयते शब्द इति प्रतीतम्, तस्मान् पुद्गलपरिणामः शब्दः / / ननु चाकाशस्य गुणाः-शब्दसंख्यापरिमाणपृथक्त्वसंयोगविभागाः, आकाशस्य गुणः शब्द इति कणभुइमतम्, एकद्रव्यवत्वाद, एकेनाश्रयद्रव्येण द्रव्यववमेकद्रव्यवत्वम्, अथवा एकच तत् द्रव्यं चेत्येकद्रव्यं तदस्याश्रयोऽस्तीत्येकद्रव्यमांस्तद्भाव एकद्रव्यवत्वं तसादेकद्रव्यवत्वान द्रव्यम्, न च कर्माचाक्षुषप्रत्यक्षत्वात्, अतः परिशेषाद् गुणः, स च क्षणिकः प्रागूच चोचारणात् सत्त्वे लिङ्गाभावात्, कारणसामग्र्याः नागभूतात्मलाभत्वात् , शब्दाभिव्यञ्ज कवस्त्वमावात् , सति चाभिव्यञ्जके कारणजो विकारो न स्यात् , नहि घटस्य प्रदीपादिदिव्यमणि . व्यञ्जकसन्निधाने परिमाणानुविधानं दृष्टम् , तावानेव हि घटकोऽभिस्य गुणत्व व्यञ्जकभेदे सत्यपि, अयं त्वल्पमध्यादिभेद उपलभ्यते, तथा-भेयादिवैशेषिकविचारः संयोगानिष्पत्तेर्वेणुपर्व विभागाच्छब्दाच शब्दनिप्पत्तेः बीचिसन्तानन्, न चायं विशेषगुणः स्पर्शवतां द्रव्याणां भूजलानलानिलानामकारणगुणपूर्वत्वात् , स्था शुचौ शङ्के कारणगुणपूर्व धवलं रूपमालक्ष्यते, विनष्टेऽपि तस्मिन् जलजे तथालक्षण मेव रूपं शकलेषु गृह्यते , न त्येवं भेर्यादिशब्दाः प्रध्वस्तेषु भयोदिषु तदवयवेधूपलभ्यन्ते, शरीरे वा सामश्लोकादिशब्दाः शरीरावयवेषु चोपलक्ष्यन्ते, तस्मान्न कारणगुणपूर्वः शब्दः, तथा यदि स्पर्शवतो गुणः स्यात् शब्दस्ततो यावत् तानि स्पर्शवद् द्रव्याणि तावद् भवेद् रूपादिवन, न चैवमुपपद्यते, तस्मादयाबद्र्व्यभावित्वान पृथिव्यादिगुणः शब्दः, इतश्च न स्पशेवद्रव्यगुणः शब्दः, आश्रयादन्यत्रोपलब्धेः, अन्यत्र हि शसमुखसंयोगोऽन्यत्र दिगन्तरेऽवस्थितैः श्रोतभिरुपलभ्यते शब्दः, स्पर्शवद्गुणास्तु रूपादयोऽन्यत्राश्रयान्न गृह्यन्ते, तस्मान्न शब्दः स्पर्शवतां गुणः, बाह्येन्द्रियप्रत्यक्षत्वाच नात्ममनोदिकालानाम्, पारिशेष्यादाकाशगुणः, लिङ्गमाका शस्यानुपलभ्यमानस्येति / तदेतदघटमानकमेव वैशेषिकैर्वा चालत्या शब्दस्य . स्वमतिविकल्पशिल्परचनामात्रमाविक्रियते गगनमहाशिंखरवर्णनयत्, गुणत्वनिरासः मृतत्वं हि प्रत्यपादि प्रागस्यास्माभियुक्तितः, तत् कथं मृतस्य व्योल - णत्वोपपत्तयः सङ्गस्यन्ते ? नहि रूपादयो व्योमगुगा इति व्याहारः शोभो, पुद्गलानामेव हि २'द्रव्यमान' इति क-ख-पाठः। 3 'कारणतो' इति ग-पाठः / १'कलिम्बादीप्र' इति -पाठः / 4 "शिखरवत्' इति क-ख-पाठः /