________________ तवार्थाधिगमसूत्रम् __ [अध्यायः 1 शब्दः समप्रविभागवचनः किश्चिन्न्यूनामिधायित्वात् स पुल्लिङ्गः, उपगतोऽर्धः उपाधः, किञ्चिन्यून इति प्रादिसमासः / नानाजीवानिति / सर्वजीवानाश्रित्य नास्त्यन्तरं, विदेहादिषु सर्वकालं समवस्थानादिति / क्षायिकस्य त्वनपगमानास्त्यन्तरम् / ग़तमन्तरद्वारम् // द्वारान्तराभिधित्सयाऽऽह भा०-भावः। सम्यग्दर्शनमौपशमिकादीनां तमो भावः / उच्यतेऔदयिकपारिणामिकवर्ज त्रिषु भावेषु भवति // टी-भाव इति / येयं रुचिः जीवस्य जिनवचनश्रद्धायिनी सा कस्मिन् भावे औपशमिकादीनां समवतरतीति प्रश्नयति-सम्यग्दर्शनमित्यादिना / सम्यग्दर्शनमित्यविशिष्ट रुचिं क्षयादिरूपां त्रिविधामपि जिज्ञासते-ककैते इति, (कैतदिति ?) तथा प्रतिवचनमपि भवि प्यति-त्रिषु भावेष्विति। औपशमिकादीनामुक्तलक्षणादीनांकतमो भावः कतमावस्थेति यावत् , सूरिस्तु हेयभावनिरसिसिपया आदेयं त्रिष्वित्यनेन कथयति, औदयिक-गतिकषायादिरूपं पारिणामिकं च भव्यत्वादिलक्षणं विहाय येऽन्ये त्रयः क्षायिकादयस्तेषु भावेषु भवति, औदयिकपारिणामिकयोर्गत्यादिभव्यत्वाद्यवधारणान्नानयोः समस्ति, अनादित्वाच, एष इति सूच्यते त्रिषु भवति, नौदयिकपारिणामिकयोरिति // द्वारान्तरं स्पृशति भा०-अल्पबहुत्वम् / अत्राह-सम्यग्दर्शनानां त्रिषु भावेषु वर्तमानानां किं तुल्यसंख्यात्वमाहीस्विदल्पबहुत्वमस्तीति ?।'उच्यते___टी-अल्पबहुत्वमित्यनेन / अत्रैतस्मिंत्रिषु भावेष्विति व्याख्याते / आहान्यः-एषां क्षायिकादीनां सम्यग्दर्शनानां त्रिषु क्षायिकादिषु परिणामेषु वर्तमानानां किं तुल्यसङ्ख्यत्वमुत नेति, आश्रयभेदेन चाल्पबहुत्वचिन्तेहाश्रिता, अल्पबहुत्वमितिः अल्पबहुभावः / किश्चिदल्पमत्रास्ति किश्चित् तु बहिति कथं भावनीयम् / उच्यते भा०-सर्वस्तोकमौपशमिकम् / ततःक्षायिकमसख्येयगुणम् / ततोऽपि क्षायोपशमिकमसङ्ख्येयगुणम् / सम्यग्दृष्टयस्त्वनन्तगुणा इति। एवं सर्वभावानां नामादिभियासं कृत्वा प्रमाणादिभिरभिगमः कार्यः / उक्तं सम्यग्दर्शनम् / ज्ञानं वक्ष्यामः // 8 // ____टी-सर्वस्तोकमौपशमिकम्, यत ईदृशी परिणतिं श्रेण्यारोहादिस्वभावां न बहवः सम्प्राप्नुवन्तीत्यागमात् , ततःक्षायिकमसंख्येयगुणम् , ततः औपशमिकात् क्षायिकमिति च / अत्रायं विशेषः प्रेक्ष्यः-छद्मस्थानां श्रेणिकादीनां यत् क्षायिकं तद् गृह्यते, अपायसद्भावात, छद्मस्थवर्तिनश्च औपशमिकस्यावधितयोपात्तत्वात् तत इत्यनेनावधिमतापि तादृशेन भवितव्यम् / तत औपशमिकात् क्षायिकं छमस्थस्वामिकमसङ्ख्येयगुणमिति, योऽसावौपशमिको राशिः सोऽसङ्ख्येयेन राशिना गुण्यते, औपशमिका बहुतरमितियावत् / तंतोऽपि क्षायिकात् क्षायोपशमिकं भवत्यसङ्ख्येयगुणं, सर्वगतिषु बहुस्वाम्याधारत्वात् / असङ्ख्येय १'भावानां ' इत्यधिको घ-पाठः /