________________ 106 तत्त्वार्थाधिगमसूत्रम् (अध्यायः 1 धर्मादीनि चत्वारि / किं सर्वपर्यायः 1 नेत्याह-तान्यपिन सर्वैरित्यादि / तान्यपि-रूपिद्रव्याणि न सर्वैः अतीतानागतवर्तमानैरुत्पादव्ययध्रौव्यादिभिरनन्तैः पर्यायैरिति // 28 // मनःपर्यायज्ञानस्याधुना विषयनिवन्धनमाचिख्यासुराह सूत्रम्-तदनन्तभागे मनःपर्यायस्य // 1-29 // भा०- यानि रूपीणि द्रव्याण्यवधिज्ञानी जानीते ततो नन्तभागे मनः _ पर्यायस्य विषयनिबन्धो भवति / अवधिज्ञानविषयस्यानन्तमनःपयायस्य विषयः भागं मनःपर्यायज्ञानी जानीते, रूपिद्रव्याणि मनोरहस्यविचारगतानि च मानुषेक्षेत्रपर्यापन्नानि विशुद्धतराणि चेति // 29 // टी-तदनन्तभागे मनःपर्यायस्य / तेपामवधिज्ञानविषयीकृतरूपिद्रव्याणामनन्तभागस्तदनन्तभागस्तस्मिन् मनःपर्यायज्ञानस्य विषयनिबन्धः / एतद विवृणोति-यानि शुक्लादिगुणोपेतानि रूपीणि द्रव्याणि जानात्यवधिज्ञानी तेषामवधिज्ञानदृष्टानामनन्तभागो यस्तस्मिन्ननन्तभागे एकस्मिन् मनःपर्यायस्य विषयनिवन्धो दृश्यः। तदित्यनेन अवधिज्ञानविषयोऽभिसंबध्यते / तस्यावधिज्ञानविषयस्य सर्वरूपिद्रव्यात्मकस्य योऽनन्तभागः एकस्तं मनःपर्यायज्ञानी जानीते / एतदाह-अवधिज्ञानविषयेत्यादिना। तान्यपि चावधिविषयानन्तभागवर्तीनि रूपीण्यवगच्छति-रूपरसाद्युपेतानि एवंगुणसम्प्राप्तात्मकानि द्रव्याणि, तान्यपि न कुडयाद्याकारव्यवस्थितानि जानाति, किन्तु मनारहस्यविचारगतानि मन:-अनिन्द्रियं प्रतिविशिष्टपुद्गलप्रचितं चेतस्तदेव च रहस्यम्-अप्रकाशस्वरूपं अन्तर्वर्तमानं मनोरहस्ये विचारो-विचारणा अन्वेषणा, कथमयं पदार्थोऽवस्थित इत्येवंरूपा, तत्र मनोरहस्यविचारणायां गतानि-प्रविष्टानि चिन्त्यमानानि जीवेनेतियावत्, तान्यपि न सर्वलोकवर्तीनि, किन्तु मनुष्यक्षेत्रम् आमानुषोत्तरात् तस्मिन् मनुष्यक्षेत्रे पर्यापन्नानि व्यवस्थितानीतियावत्, अवधिज्ञानिनश्च सकाशाद् विशुद्धतराणि बहुतरपर्यायाणि जानीत इतियावत् // 29 // सम्प्रति केवलज्ञानस्य विषयमाचष्टे सूत्रम्-सर्वद्रव्यपर्यायेषु केवलस्य // 1-30 // . _ भा०-सर्वद्रव्येषु सर्वपर्यायेषु च केवलज्ञानस्य विषयकेवलस्य विषयः निबन्धो भवति। तद्धि सर्वभावग्राहकं सम्भिन्नलोकालोकविषयम् / नातः परं ज्ञानमस्ति / न च कवलज्ञानविषयात् परं किश्चिदन्यज्ज्ञेयमस्ति॥ टी.-सर्वद्रव्येत्यादि। सर्वद्रव्येषु धर्मादिषु सर्वपर्यायेषु उत्पादादिषु, धर्मादीनां च त्रयाणां परत उत्पादविगमा, पुद्गलानां जीवानां च स्वतः परतश्च, १'पयांयस्याधुना' इति ग-पाठः। २'मनुष्यः ' इति घ-टी-पाठः।