________________ सूत्रे 27-28] स्वोपज्ञभाष्य-टीकालङ्कृतम् 105 मोहः-मोहनीयं दर्शनमोहादिभेदमष्टाविंशतिविधं तस्य यो नाशस्तस्मात् मोहक्षयादात्यन्तिकात् ज्ञानं-मत्यादि, दर्शनं-चक्षुदशेनादि, तयोज्ञोनदर्शनयोरावरणीयं--आच्छादकं, अन्तरायं-दानलब्ध्यादिविघाति, अत एपां च ज्ञानदर्शनावरणीयान्तरायाणां क्षयातूशाटादात्यन्तिकात् केवलज्ञानं प्रादुरस्ति सकलद्रव्यभेदसंग्राहीति // 26 // एवं मतिज्ञानादीनां पञ्चानामपि ज्ञानानां स्वरूपेऽवते तस्य मत्यादेर्यो विषयस्तमजानन् पृच्छति-एषां पूर्वोदितानां मतिज्ञानादीनां को विषयनिवन्धः कस्य ज्ञानस्येति / उच्यतेसूत्रम्-मतिश्रुतयोनिवन्धः सर्वद्रव्येष्वसर्वपर्यायेषु // 1-27 // भा०-मतिज्ञानश्रुतज्ञानयोर्विषयनिवन्धो भवति सर्वद्रव्येष्वसर्वपर्यायेषु / मतिश्रुतयोर्निबन्धः ताभ्यां हि सर्वाणि द्रव्याणि जानीते, न तु सर्वैः पर्यायैः // 27 // टी-मतिश्रुतयोनिबन्ध इत्यादि / प्रकृतेन ज्ञानेन मातेश्रुते विशेपयन्नेवमुक्तवान्मतिज्ञानश्रुतज्ञानयोर्विषयनिबन्ध इति / विषयव्यापारो-विषयगोचरो भवतीति, सर्वद्रव्येषु सवाणि च तानि द्रव्याणि च सवेद्रव्याणि तेषु धमोधमोकाशपुद्गलजीवास्तिकायाख्येषु / असर्वपर्यायेष्विति सर्वे निरंवशेषा उत्पादादयः पर्याया येषां तानि सर्वपर्यायाणि, न सर्वपयोयाण्यसर्वपर्यायाणि तेषु / एतदेव भावयति-ताभ्यां हीत्यादि, हि-यस्मात् ताभ्यांमतिश्रुताभ्यां सर्वाणि द्रव्याणि-धर्मादीनि जानाति, न तु तेषां सर्वान् पर्यायानुत्पादादीनिति / कथं पुनस्ताभ्यां सर्वद्रव्यविषयोऽधबोधः ? / मतिज्ञानी तावत् श्रुतज्ञानेनोपलब्धेष्वर्थेषु यदाऽक्षरपरिपाटीमन्तरेण स्वभ्यस्तविद्यो द्रव्याणि ध्यायति तदा मतिज्ञानविषयः सर्वद्रव्याणि, न तु सर्वान् पर्यायान् , अल्पकालत्वान्मनसश्चाशक्तेरिति, तथा श्रुतग्रन्थानुसारेण सर्वाणि धर्मादीनि जानाति, न तु तेषां सर्वपर्यायानिति // 27 // सम्प्रत्यवधिज्ञानस्य विषयनिबन्धनं कथयति सूत्रम्-रूपिष्ववधेः // 1-28 // भा०-रूपिष्वेव द्रव्येष्ववधिज्ञानस्य विषयनिवन्धो भवति, असर्वपर्यायेषु / .. सुविशुद्धेनाप्यवधिज्ञानेन रूपीण्येव द्रव्याण्यवधिज्ञानी जानीते, अवधविषयः तान्यपि न सर्वैः पर्यायैरिति // 28 // टी-रूपिष्ववधेरिति / रूपिष्वेव-पुद्गलद्रव्येष्वेव अवधेः अतीन्द्रियस्य विषयनिपन्धो भवति सर्वेषु असर्वपर्यायेषु / किं योऽपि परमावधिरत्यन्तज्ञानविशुद्धस्तेनापि रूपीण्येव, नारूपीणि जानातीत्यारेकित आह-सुविशुद्धनापि--परमप्रकर्षप्राप्तेनापि, यो ह्यलोके लोकप्रमाणान्यसंख्येयानि खण्डानि पश्यति तेनाप्यवधिना पुद्गलद्रव्याण्येवावसीयन्ते, न १'अत्यन्तविशुद्ध' इति ग-पाठः / 14