________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 ____टी-स्वामिकृत इत्यादि / अवधिज्ञानं संयतस्य-साधोर्विरतस्येत्यर्थः / असंयतस्य-अविरतस्य, वाशब्दात् संयतासंयतस्य वा, सर्वगतिषु नारकादिकासु चतसृष्वपि भवेत् , यतो नारकादीनां सर्वेषामवविज्ञानमुत्पद्यते, मनःपर्यायज्ञानं पुनर्मनुष्य संयतस्यैव भवति, मनुष्यग्रहणात् नारकादिव्युदासः, संयतग्रहणात् मिथ्यादृष्टयादीनां प्रमत्तान्तानां पण्णां व्युदासः, एवकारेण नियमयति-मनुष्यसंयतस्यैव फलं नियमस्य दर्शयति-नान्यस्येति, देवादे तदुत्पद्यत इत्यर्थः // __ भा०—विषयकृतश्चानयोः प्रतिविशेषः / रूपिद्रव्येष्वसर्वपर्यायेष्ववधेविषयनिवन्धो भवति / तदनन्तभागे मनःपर्यायस्येति // ___टी-विषयकृत इत्यादि / रूपिषु परमाणुद्रव्येषु, असर्वपर्यायेष्विति / सर्वेसम्पूर्णाः पर्याया-उत्पादादयो येषां तानि सर्वपर्यायाणि न सर्वपर्यायाण्यसर्वपर्यायाणि तेषु, तानि हि रूपिद्रव्याण्यवधिज्ञानी सर्वाणि जानाति न तु तेषां सर्वान् पर्यायानिति, एकैकस्य तु परमाणोः कदाचिदसङ्ख्येयान् पर्यायान् जानाति कदाचित् सङ्ख्येयान् , जघन्येन चतुरो रूपरसगन्धस्पर्शानिति, न पुनरेकैकस्य परमाणोरनन्तान ज्ञातुं प्रत्यलं स्यात् पर्यायानिति, यदि च सर्वानेव जानीयात् केवल्येवासौ स्यात् // “जे एगं जाणति से सव्वं जाणति"" इति [ आचाराङ्गनामकात् (सू० 122)] आगमात् / अतोऽसर्वपयोयेषु अवधेः-अवधिज्ञानस्य विषयनिबन्धः-विषयगोचर इति / मनःपर्यायज्ञानस्य तु रूपिद्रव्याणि न सर्वाणि विषयः, यतस्तेषामवधिज्ञानानां द्रव्याणामनन्तभागीकृतानां य एकोऽनन्तभागस्तस्मिन् मनःपर्यायज्ञानस्य विषयनिबन्धः / तस्मादतीन्द्रियत्वे तुल्येऽपि विशुद्धयादेर्भेदोऽवधिमनःपर्याययोरिति // भा०-अत्राह-उक्तं मनःपर्यायज्ञानम् / अथ केवलज्ञानं किमिति / अत्रो. केवलानभिधान च्यते-केवलज्ञानं दशमेऽध्याये वक्ष्यते-मोहक्षयात् ज्ञानदर्शनाकारणम् वरणान्तरायक्षयाच केवलमिति (10-1) // 26 // अत्राह-एषां मतिज्ञानादीनां ज्ञानानां कः कस्य विषयनिबन्ध इति / अत्रोच्यते टी०-अत्रावकाशे ब्रवीति-प्रतिपादितं मनःपर्यायज्ञानं, तदनन्तरं केवलज्ञानमुद्दिष्ट, तत् किंस्वरूपमिति प्रश्नयति केवलज्ञानं किंस्वरूपमिति / उच्यते-क्रमागतमपीह न भण्यते, यस्मात् केवलज्ञानस्योत्पत्तिः ज्ञानावरणीयादीनां घातिकर्मणामात्यन्तिकक्षयात् , स चात्यन्तिकक्षयः संवरेण प्राप्यते, संवरच नवमेऽध्याये वक्ष्यते, तत्समनन्तरं केवलज्ञानं दशमेऽध्यायेऽभिधास्यते, दशमाध्यायादिसूत्रं च तस्य प्रदेशकै पठति-मोहक्षयादित्यादि / मोहनं 1 'भवति' इति ग-टी-पाठः / 2 'सूक्ष्मद्रव्याणि' इति ख-पाठः / 3 य एकं जानाति स सर्व जानाति / 4'. मवधिज्ञानज्ञातानां ' इति प्रतिभाति / 5 ' प्रदर्शकं' इति क-ख-पाठः।