________________ सूत्र 26 स्वोपज्ञभाष्य-टीकालङ्कृतम् 103 एभ्यो हेतुभ्योऽवधिमनःपर्यायज्ञानयोर्विशेषोऽवगन्तव्यः, पञ्चम्यर्थं च कृतशब्देनाचष्टे, विशुद्धया कृतो विशुद्धिकृतः क्षत्रेण कृतः स्वामिना कृतः विषयेण कृतः विषयकृत इति। अनयोरिति अवधिमनःपयोयज्ञानयोः प्रतिविशेषो-भेदोऽवधिमनःपर्यायज्ञानयोरिति, तद्यथा-एते यथा घटन्ते तथा कथ्यन्ते भा०-अवधिज्ञानात् मनःपर्यायज्ञानं विशुद्धतरम् / यावन्ति हि रूपीणि द्रव्याण्यवधिज्ञानी जानीते तानि मनःपर्यायज्ञानी विशुद्धतराणि मनोगतानि जानीते / किंचान्यत् / टी-अवधिज्ञानादुक्तलक्षणात् मनःपर्यायज्ञानं विशुद्धतरम् , कथं ? विशुद्धतरता स्वयमेव भाष्यकृदाह-यावन्ति-यत्परिमाणानि नियमादनन्तानि, हिरेव इत्यस्यार्थे, यावन्त्येव, रूपमेपामस्ति रूपीणि, प्रदर्शनं चैतद्रपरसगन्धस्पर्शशब्दवन्ति, द्रव्याणि गुणसध्यातात्मकानि अवधिज्ञानी जानीते, पश्यति चेति दृश्यम्, तेषामवधिज्ञानेनोपलब्धानां रूपिद्रव्याणां यावन्ति मनःपर्यायज्ञानिनो विषयभूयमास्कन्दन्ति तान्यसौ मनःपर्यायज्ञानी विशुद्धतराणि-बहुतरपर्यायाणि जानीते इत्यर्थः / तान्यपि च मनोगतानीति-मनोव्यापारभाञ्जीत्यर्थः, असश्चिन्त्यमानानि तु नैव जानीते साक्षात् / किश्चान्यदिति, अयं चापरो भेदहेतुरिति // ___ भा०-क्षेत्रकृतश्चानयोः प्रतिविशेषः। अवधिज्ञानमङ्गुलस्यासङ्ख्येयभागादिषूत्पन्नं भवत्यासर्वलोकात्, मनःपर्यायज्ञानं तु मानुषक्षेत्र एव भवति, नान्यक्षेत्र इति // किंचान्यत् / टी-क्षेत्रकृतश्चानयोरवधिमनःपर्याययोः प्रतिविशेषो-भेदो दृश्यः, एतद भावयति-अवधिज्ञानमगुल्लेत्यादि / अङ्गुलस्यासङ्ख्येयानि खण्डानि कृतानि, तत्रैकस्मिन्नसख्येयभागमात्रे क्षेत्रे यावन्ति रूपिद्रव्याणि समवगाढानि सर्वस्तोकानि यः पश्यति, ततः स एव वर्धमानेन तेन बहूनि बहुतराणि च द्रव्याण्यवगच्छति यावत् सर्वलोकावस्थितानि रूपिद्रव्याणि पश्यति, शुभाध्यवसायविशेषादिति, एतदाह-अङ्गुलस्यासङ्ख्येयभागादिपुत्पन्नं भवत्यासर्वलोकादिति / मनःपर्यायज्ञानस्य तु नैतावत् क्षेत्रमस्ति, यतो मनःपर्यायज्ञानं मानुषेत्यादि, मानुषक्षेत्रे-अर्धतृतीयेषु द्वीपसमुद्रेष्वित्यर्थः, नान्यक्षेत्रे इति न वा शर्कराप्रभादिनरकेष्विति // भा०-स्वामिकृतश्चानयोः प्रतिविशेषः। अवधिज्ञानं संयतस्य, असंयतस्य, [संयतासंयतस्य चं] (वा) सर्वगतिषु भवति, मनःपर्यायज्ञानं तु मनुष्यसंपतस्यैव भवति, नान्यस्य / / किंचान्यत् / १'रूपाणि' इति घ-पाठः / 2 'मनोरहस्यगतानीव' इत्यपि ग-टी-पाठः। 3 'मनुष्यक्षेत्रे' इति क-ख-पाठः। 'या' इति घ-पाठः।