________________ 102 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 नयोः प्रतिविशेषः / क इत्यसम्भावने, नैव कश्चित् सम्भाव्यते, अनयोरिति ऋजुविपुलमत्योः प्रतिविशेषः-स्वगतो मेद इति, उच्यते गुरुणा सूत्रम्-विशुद्धयप्रतिपाताभ्यां तद्विशेषः॥ 1-25 // भा०—विशुद्धिकृतश्च अप्रतिपातकृतश्चानयोः प्रतिविशेषः / तद्यथाऋविपुलमत्यो ऋजुमतिमनःपर्यायज्ञानाद् विपुलमतिमनःपर्यायज्ञानं विशुद्धविशेषः तरम्। किश्चान्यत् / टी०-विशुद्धथप्रतीत्यादि / विशुद्धेः कारणात् तयोः ऋजुविपुलमत्योर्विशेषः अप्रतिपाताच,विशुद्धया-बहुतरपर्यायज्ञानरूपया कृतो-जनितः विशुद्धिकृतः,चशब्दः समुच्चये, अप्रतिपातेन-अच्यवनरूपेण कृतः अप्रतिपातकृतश्चानयोः ऋजुविपुलमत्योः प्रतिविशेषो नानात्वं बोद्धव्यम् / तत्र विशुद्धिकृतं तावद् भेदं दर्शयति-ऋजुमतिमनःपर्यायज्ञानात् सामान्यग्राहिणः विपुलमतिमनःपर्यायज्ञानं नानाविधविशेषग्राहि विशुद्धतरमिति,यद्रव्यं यावद्भिः पर्यायैरवच्छिनत्ति ऋजुमतिस्तदेव द्रव्यं बहुतरैः पर्यायैर्विपुलमतिरवगच्छति, यथा घटे चिन्तिते ऋजुमतिमनःपर्यायज्ञानेनैतावद् व्यज्ञायि-घटोऽनेन चिन्तितः, विपुलमतिमनःपर्यायज्ञानं पुनस्तमेव घटं पार्थिवत्वरक्तत्वप्रमाणादिभिर्बहुभिर्भेदैरवबुद्ध्यते, अतो विशुद्धतरमुच्यते / किञ्चान्यदिति भेदस्य उपपत्त्यन्तरसम्भावनाद्वारेण प्रयुज्यते, इहान्योऽपि नानात्वकार्यस्ति हेतुरिति, तमाह . भा० ऋजुमतिमनःपर्यायज्ञानं प्रतिपतत्यपि भूयः, विपुलमतिमनःपर्यायज्ञानं तु न प्रतिपततीति // 25 // अत्राह-अथावधिमनःपर्यायज्ञानयोः कः प्रतिविशेष इति। अत्रोच्यते टी०-ऋजुमतिमन:पर्यायज्ञानं प्राप्तमप्यप्रमत्तसंयतेन प्रतिपतति-प्रच्यवते, अपिशब्दात् कदाचिन्न प्रतिपतत्यपि, भूयः-पुनः विपुलमतीत्यादि, यस्य पुनर्विपुलमतिमनःपर्यायज्ञानं समजनि तस्य नैव प्रतिपतत्या केवलप्राप्तेरिति // 25 // ____एवं भेदे ऋजुविपुलमत्योः प्रतिपादिते अवधेर्मनःपर्यायज्ञानस्य चातीन्द्रियत्वे समाने रूपिद्रव्यनिवन्धनत्वे च विशेषमपश्यन् ब्रते-अथावधिमनःपर्यायज्ञानयोः कः प्रतिविशेष इति / स चैवं पूर्वपक्षवादी चोदयति-कुतः प्रतिविशेष इति हेत्वभावं मन्यमानः, उत्तरपक्षवादी तु हेतून् विशुद्धयादीन् पश्यन्नेवमाह-अत्रोच्यते सूत्रम्-विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्याययोः // 1-26 // अवधिमनःपर्या- भा०-विशुद्धिकृतः, क्षेत्रकृतः, स्वामि कृतः, विषयकृतश्चाययाविशेषः नयोर्विशेषो भवत्यवधिमनःपर्यायज्ञानयोः / तद्यथा टी०-विशुद्धीत्यादि / विशुद्धिः-बहुतरपर्यायपरिज्ञानकारणत्वं, क्षेत्र-आकाशं ह. श्यमानादृश्यमानरूप्यरूपिद्रव्याधारः, स्वामी ज्ञानस्योत्पादयिता,विषयो ज्ञानगम्यः पदार्थः,