________________ सूत्र 30] स्वोपज्ञभाष्य-टीकालङ्कृतम् 107 यथा शुक्लतया विगच्छन्नीलतयोपजायमानः पुद्गल इत्यवतिष्ठते, जीवोऽपि सुरतयोत्पद्यते मनुष्यतया विगच्छति जीवत्वेन च सदावस्थित इति, अतः सर्वेषु पर्यायेप्वेवमात्मकेषु केवलज्ञानस्य विषयनिबन्धो गोचरो भवति / कथं पुनः केवलस्य सर्वाणि द्रव्याणि सर्वे पर्यायाश्च गोचरीभवन्ति ? / उच्यते-ततू केवलज्ञानं यस्मात् सर्वभावग्राहकं सर्वेषां भावानां ग्राहक-द्रव्यक्षेत्रकालभावविशिष्टानां तत् परिच्छेदकम्--अवभासकम् , अत एव सम्भिन्नलोकालोकविषयं लोको-धर्माधर्मद्रव्यद्वयाविच्छिन्नमाकाशं, यत्र त्वाकाशे तौ धर्माधर्मों न स्तः सोऽलोकः, लोकश्चालोकश्च लोकालोको सम्मिन्नौ च तो लोकालोको च सम्भिन्नलोकालोको विषयो-गोचरो यस्य तत् सम्मिन्न लोकालोक विषयम् / एतदुक्तं भवति-यदिह लोके अलोके वोऽस्ति किश्चिज्ज्ञेयं तद् यथा बहिः पश्यत्येवमन्तः, एवं सम्भिन्नलोकालोकविषयं, सम्भिन्नमिति सम्पूर्णम् , अथवा सर्वैः पर्यायैरथवा यथात्मानं तथा परम् , अथवा स्वपर्यायैः परपर्यायैश्च / अथ किमेतस्माज्ज्ञानात् प्रकृष्टतरमन्यत् किश्चिज्ज्ञानमस्तीति ? / उच्यते-नातः परं ज्ञानमस्ति अस्मात् केवलात् परं-प्रधानतरं ज्ञानं--ज्ञेयपरिच्छेदि नास्ति किञ्चित् / एतस्माद् यद्यपि ज्ञानं न प्रधानतरमस्ति विषयस्तर्हि अप्रकाशितोऽस्ति तेन केवलज्ञानेनेति, तन्न, यतः--न च केवलेत्यादि / केवलज्ञानस्य विषयः सर्वद्रव्याणि सर्वपयोयाश्च, एतस्माद् विषयात् परमन्यत् किञ्चिज्ज्ञेयं नास्ति यदप्रकाशितं केवलेनेति // एवं विषयमाख्याय केवलस्य तस्यैव पर्यायकथनं करोति भा०-केवलं परिपूर्ण समग्रमसाधारणं निरपेक्षं विशुद्धं स्वरूपम् सर्वभावज्ञापकं लोकालोकविषयमनन्तपर्यायमित्यर्थः // 30 // अत्राह-एषां मतिज्ञानादीनां युगपदेकस्मिन् जीवे कति भवन्तीति ? / अत्रोच्यते टी-केवलं परिपूर्ण भण्यते, सकलं द्रव्यभावजालं परिच्छिन्दन् परिपूर्णमिति, यथैकं जीवपदार्थ तथा परमपि परिच्छिन्दत् समग्रमिति व्यपदिश्यते, असाधारणं मत्यादिज्ञानरतुल्यत्वात् , निर्गता आलोपेन्द्रियादिरूपा अपेक्षा यत्र तन्निरपेक्षं, ग्राह्यं मुक्त्वा नेन्द्रियादीन्यपेक्षत इतिवायत् , विशुद्धं अशेषज्ञानदर्शनावरणमल विलयनात् . सर्वभावज्ञापकमिति सर्वेषां जीवादीनां भावानां ज्ञापकं-प्ररूपकम् / / ननु च मृकं तत् केवलज्ञानं, तत् कथं प्ररूपकं भण्यते ? शदो हि ज्ञापको मतः, उच्यते-उपचारात् ज्ञापकं, यतः केवलज्ञानेन सर्वद्रव्यभावान् दृष्टान् शब्दः प्रकाशयति, ततः वेवलज्ञानमेव प्रकाशकं भप्यते / लोकालोको विषयोऽस्य तत् लोकालोक विषयम् / कथमिति चेत् , यतः अनन्ताः पर्यायाः-परिणामाः यस्य तत् अनन्त पर्यायं, ज्ञेयं वाऽनन्तपर्यायमितिकृत्वा तदप्यनन्तपर्यायमभिहितं, ज्ञेयानुरोधेन / / 30 / / १'चास्ति' इति क-पाठः / २'जातं ' इति क-ख-पाठः / 3 'प्ररूपकं ज्ञापकं भव्य ते ' रति ग-पाठः।