________________ 73 सूत्रं 11] स्वोपज्ञभाष्य-टीकालङ्कृतम् अवग्रहेहयोरनिश्चितत्वान्न समस्ति प्रमाणम् / स चापायः सद्व्यानुगतो यदि न भवति तन्मिथ्यादृष्टेरिवाशुद्धदलिककलुषितः, अतो योऽपायः सद्व्यानुप्रामाण्यम् वर्ती स प्रमाणं मतिभेदः। यदा तर्हि दर्शनसप्तकं क्षीणं भवति तदा सद्व्याभावे कथं प्रमाणता श्रेणिकाद्यपायांशस्य ? उच्यतेसद्व्यतयेत्यनेनार्थत इदं कथ्यते-सम्यग्दृष्टेर्योऽपायांश इति / भवति चासौ सम्यग् दृष्टेरपायः। अथवा एकशेषोऽत्र द्रष्टव्यः, अपायश्चापायश्चापायौ सद्रव्यं अपायसद्रव्ये परोक्षता च सदद्रव्यं च सद्रव्ये अपायौ च सद्रव्ये चापायसद्व्याणि तेषां भावस्तयेति। इदमुक्तं भवति-अपायसद्व्यानुगतो यः अक्षीणदर्शनसप्तकस्य स परिगृहीतः, एकेन अपायसद्व्यशब्देन, तथा द्वितीयेनापायो यः सदद्रव्यं शोभनं द्रव्यं, कश्चापायः सद्व्यम् ? यः क्षीणदर्शनसप्तकस्य भवति / एतेनैतदुक्तं भवति-सम्यग्दर्शनिनः क्षीणाक्षीणदर्शनसप्तकस्य योऽपायो मतिज्ञानं तत् परोक्षं प्रमाणम् / सविकल्पमिति निमित्तापेक्षत्वाद् धृमादग्निज्ञानवदिति, एवं श्रुतज्ञानस्याप्यपायांसः प्रमाणयितव्यः / सम्प्रति निमित्तापेक्षत्वादित्यस्य यो व्यभिचारः पुनः पुरस्तादवाचि तत्परिजिहीषयेदमाह-तदिन्द्रियानिन्द्रियनिमित्तमिति वक्ष्यते इत्यनेन / तदिति मतिज्ञानम्, इन्द्रियाणि-श्रोत्रादीनि अनिन्द्रियं-मनः ओघज्ञानं च तानि निमित्तं कारणं यस्य ज्ञानस्य तदिन्द्रियानिन्द्रियनिमित्तम्, न हीन्द्रियाण्यनिन्द्रियं च विरहय्य तस्य ज्ञानस्य सम्भवोऽस्तीति, ततश्च हेतुरेवंविधो ज्ञा(जा)तः-इन्द्रियानिन्द्रियनिमित्तत्वादिति / विशिष्टमेव निमित्तमिन्द्रियानिन्द्रियाख्यमुररीकृत्य निमित्तापेक्षत्वादिति मया प्रागभ्यधायि, नास्त्यतो व्यभिचारः / श्रुतज्ञानस्या पीन्द्रियानिन्द्रियनिमित्ततैव, किंतु अन्यथापि निमित्तं कथ्यते, तदाह-तत्पूर्वकत्वात् / तदिति मतिज्ञानं पूर्व-पूरकं पालकं यस्य तत् तत्पूर्वकं तद्भावस्तत्पूर्वकत्वं तस्मात् तत्पूर्वकत्वात, यावन्मतिस्तावत् तद् भवति, न त्वीदृश्यवस्थाऽस्ति यत्र तन्मतिज्ञानेन विना प्रादुःष्यात्, अतस्तन्मतिज्ञानं श्रुतज्ञानस्य पालकं भवतीतिकृत्वा मतिज्ञानमेव तस्यात्मलाभनिमित्तं भवति, तस्मिन् सति तस्य भवनात्, अतः श्रुतं मतिं निमित्तीकृत्य प्रवर्तमानमिन्द्रियानिन्द्रियनिमित्तं सत् कथं प्रत्यक्षव्यपदेशं लभेत ? श्रुतस्य परोक्षता तथा परोपदेशजत्वाच / श्रुतज्ञानं परोक्षं, परः-तीर्थकरादिस्तस्यो पदेशः, उपदिश्यते उच्चायते इत्युपदेशः-शब्दस्तस्मात् परोपदेशात्-तीर्थकरादिशब्दश्रवणादुपजायते यत् तदिन्द्रियानिन्द्रियनिमित्तं श्रुतज्ञानं, तत्पूर्वकत्वात् परोपदेशादिति च, अनेन निमित्तभूयस्त्वं ख्यापितम् / यतः श्रुतज्ञानमुपजायमानं स्वतः प्रत्येकबुद्धादीनां मनसि सति मतिज्ञाने च सति समस्ति, अतो निमित्तद्वयमाश्रितं भवति / तथा यस्यापूर्वमेवेदानीं प्रादुरस्ति तस्य सति परोपदेशे सत्यां मतो सत्सु चेन्द्रियानिन्द्रियेपूदेति, अतो निमि 1' श्रुतमतिं ' इति क-ख-पाठः / 2 'श्रितं च ' इति ख-पाठः /