________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 सूत्रम्-आद्ये परोक्षम् // 1-11 // भा०-आदौ भवमाद्यम् / सूत्रक्रमप्रामाण्यात् प्रथमद्वितीये शास्ति, तदेवमाये-मतिज्ञानश्रुतज्ञाने परोक्षं प्रमाणं भवतः। कुतः / निमित्तापेक्षत्वात् अ. पायसद्व्यतया मतिज्ञानम् / तदिन्द्रियानिन्द्रियनिमित्तमिति वक्ष्यते। तत्पूर्वकत्वात् परोपदेशजत्वाच्च श्रुतज्ञानम् // 11 // टी-सूत्रोपात्ताद्यशब्दार्थोऽन्यथाऽवगमयितुं न शक्यते परसायित्यतो व्युत्पत्याहआदौ भवमाद्यम्, यस्मात् परमस्ति न पूर्वमादिः सः विवक्षावशात्, तत्र भवं, दिगादित्वाद्यत, आद्यं चायं चेत्याये इति, प्रतिविशिष्टेन च क्रमेण व्यवस्थितानां आयव्यपदेशो दृश्यते, तद्यथा-अयं यतिरेषां विशिष्टक्रममाज़ामाद्य इति / एवमत्रामूर्तानां ज्ञानानां क्रमसन्निवेशो दुरुपपाद इति मत्त्वा ब्रवीति-आये इति, सूत्रक्रमप्रामाण्यात, सूत्रं चासनमप्यनन्तरं त्यज्यते, तत् प्रमाणे (1-10) इति सन्निवेशाभावात्, तस्मात् परमेव मतिश्रुतादि ग्राह्यम् , तत्र क्रमः-परिपाटी, सूत्रे क्रमः सूत्रक्रमः, तस्य प्रामाण्यम्--आश्रयणं तस्मात् / प्रथमद्वितीये मतिश्रुते, शास्तीति च ग्रन्थकार एव द्विधा आत्मानं विभज्य सूत्रकारभाध्यकाराकारेणैवमाह-शास्तीति, सूत्रकार इति शेषः / अथवा पर्यायभेदात् पर्यायिणो भेद इत्यन्यः सूत्रकारपर्यायोऽन्यश्च भाष्यकारपर्याय इत्यतः सूत्रकारपरोक्षप्रमाणम् पर्यायः शास्तीति / तदेवमाद्यव्यपदेशे सिद्धे सुखेन वक्तुं शक्यते, किमिति चेत्, उच्यते-मतिज्ञानश्रुतज्ञाने द्वे अपि परोक्षं प्रमाणं भवतः, शेषमनूद्य परोक्षप्रमाणता विधीयते / कुत इति च प्रश्नयितुरयमभिप्रायः-यमयं हेतुमुपन्यसिष्यति वक्ष्यमाणं तत्रास्य व्यभिचारं दर्शयिष्यामीति, इतरोऽपि सविशेषणं हेतुं बुद्धौ न्यस्याह-निमित्तापेक्षत्वादिति / धृमादग्निज्ञानं परोक्षमुपजायते निमित्तापेक्षं, तद्वन्मतिश्रुते, इन्द्रियानिन्द्रियनिमित्तभावः स्पष्टो मतेः, श्रुतस्य च / न च निमित्तापेक्षिता अनैकान्तिकी, कथं तविधिज्ञानादित्रयं निमित्तमपेक्षते ? यतोऽवधिरान्तरनिमित्तं क्षयोपशममालम्ब्य बहिरङ्गं च विषयमुत्पद्यते, तथा मनःपर्यायज्ञानमपि, केवलज्ञानमपि कर्मणां ज्ञानावृतां समस्तक्षयमाश्रित्य विषयं चोत्पद्यत इति ? / उच्यते-इतरः सविशेषणोऽयं हेतुरित्याहअपायसद्व्येत्यादि / अनेन च प्रतिज्ञार्थं विशिष्यापायसद्रव्येत्यादिना ततो हेतुं सविशेषणं करिष्यति तदिन्द्रियानीत्यादिना। यन्मतिज्ञानं धर्मितयोपात्तं तत् कीदृशं, परोक्षं प्रमाणं वा साध्यते ? / उच्यते-अपायसद्व्य तया मतिज्ञानं धर्मित्वेनोपन्यस्तम्, अपायो निश्चय ईहानन्तरवर्ती / सद्व्यमिति, शोभनानि द्रव्याणि-सम्यक्त्वदलिकानि, अपायश्च सद्रव्याणि च तेषां भावः-स्वरूपादप्रच्युतिः, तयेत्थंभूतया मतिज्ञानं धर्मि / एतदुक्तं भवति-मतिज्ञानस्यावग्रहादिभेदस्य मध्ये योऽपायोंऽशस्तन्मतिज्ञानं परोक्षं प्रमाणमिति / १.शेषः' इति क-पाठः / 2 'प्रतिज्ञानार्थ' इति स्व-पाठः / 3 'वा' इति ख-पाठः /