________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् सूत्र 10 ] टी-तच्छब्द एतदित्यस्यार्थे, पञ्चविधमपि मत्यादिज्ञानं द्वे प्रमाणे भवत इत्येतदत्र विधीयमानं, द्वे एव प्रमाणे भवतः, नान्यत् प्रमाणमस्ति // ननु चान्यैरनेकधा कल्पितं, कथं पुनरवधियते द्वे एवेति / उच्यते-अन्येषामत्रैवान्तर्भावात् प्रमाणान्तरत्वं निवार्यते, न प्रमाणत्वम् / कानिचिच्च नैव प्रमाणानि, एतच्च द्वयमुत्तरत्र भाष्यकार एव दर्शयिष्यति / अथ दे प्रत्यक्षानुमाने इत्येवं द्वयं ग्राह्यमुतान्यथेत्याह-एवं चान्यथेति च दर्शयति, 'परोक्षं प्रत्यक्ष चेति प्रत्यक्षमित्येवं परोक्षमिति च अन्यथा, परोक्षं चास्साद अनुमानमिति नोक्तं, सिद्धान्ते परोक्षमित्युपन्यासात् / “तं समासओ दुविहं पन्नत्त, तंजहा-पञ्चक्खं परोक्खं चे (नन्दीसूत्रे सू० २)"इति / परैः इन्द्रियैरुक्षा-सम्बन्धो यस्य ज्ञानस्य तत् परोक्षं ज्ञानम् / एतदुक्तं भवतिइन्द्रियैर्निमित्तैः सद्भिर्यज्ज्ञानमात्मनि सम्बन्धमनुयाति तत् परोक्ष-मतिश्रुतरूपम् / यत् पुनरिन्द्रियादिनिरपेक्षमात्मन एवोपजायते तत् प्रत्यक्षम्, द्विविधेऽपि प्रत्यक्षपरोक्षे ज्ञाने यः साकारांशः स प्रमाणव्यपदेशमश्नुते, यथाभिहितम् "साकारः प्रत्ययः सर्वो, विमुक्तः संशयादिना / - साकारार्थपरिच्छेदात्, प्रमाणं तन्मनीषिणाम् // " इति, साकारांशस्य प्रमाणताऽवसेयेति / प्रमीयतेऽनेनेति प्रमाणम , मीयतेऽनेनेति मानं, परिनिष्पनेन मानशब्देन सह प्रशब्दस्योपपदसमासः, प्रगतं प्रकृष्टं मानं प्रमाणस्य : प्रमाणम् , प्रमेयपरिच्छेदार्थिनः प्रमातुस्तत्परिच्छेदसिद्धिप्रधानाङ्गम तिशयोपकारित्वात् प्रकृष्टं मानं प्रमाणम् / वाक्यज्ञानद्वैविध्यात् द्विविधं, प्रत्यक्षपरोक्षभेदाद् वा / अथवा सर्वमेव ज्ञानं प्रत्यक्षं मनइन्द्रियजीवेष्वक्षशब्दस्य रूढत्वात्,सावरणानावरणविशेषात् तु भिद्यते / सावरणानां तावत् त्रितयाभिमुख्येनासदादीनां प्रत्यक्षमेव ज्ञानम्, तद्यथा-आत्माभिमुख्येन स्वप्ने भयहर्षरोगगमनराज्यलाभादि, मनआभिमुख्येन स्मरणप्रत्यभिज्ञानवितर्कविपर्ययनिर्धारणादि, इन्द्रियाभिमुख्याच्चक्षुरादिविषयं रूपादिवत्, निरावरणानामात्माभिमुख्येनैव, अभ्यात्मं तु स्वयंदृशां प्रत्यक्षज्ञानिनां, विशुद्धशब्दनयाभिप्रायेण चेदमेकमेव प्रत्यक्षं प्रमाणमिति // आचार्यसिद्धसेनोऽप्याह "अभित्रि मादृशां भाज्यमभ्यात्मं तु स्वयंदृशाम् / एकं प्रमाणमर्थैक्या-दैक्यं तल्लक्षणैक्यतः॥" प्रमाण-द्वात्रिंशिकायाम् ___ अर्थैक्यं कुतः 1 / तल्लक्षणैकत्वात् अर्यते-गम्यते परिच्छिद्यत इति / अथवा प्रमातव्यं प्रमेयं प्रमातुमीप्सिततमं प्रमाणार्ह वा कर्मसाधनत्वानतिक्रमादेकलक्षणत्वम् // 10 // अयमिदानी विवेको नावधृतः पञ्चविधस्य मध्ये-किं परोक्षं किं वा प्रत्यक्षमिति, तद्विवेकावधारणाय आह शब्दार्थः 1 तत् समासतो द्विविधं प्रज्ञप्तं, तद्यथा-प्रत्यक्षं च परोक्षं च /