________________ सप्रत्ययसम्यक तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 रुचितत्त्वलक्षणोऽन्यो मत्याधपायांश विरहय्येति / एवं विषयभेदोऽपि निराकार्य इति / तस्मात् ज्ञानस्यैव विशिष्टावस्थाऽन्यमतपरिकल्पिततत्त्वनिरासतो जिनवचनोनीतपदार्थश्रद्धानलक्षणा सम्यग्दर्शनव्यपदेशं प्रतिलभत इति न्याय्यम् / इदानीं सूत्रोपन्यस्तसम्यग्दर्शनाद्यवयवानां प्रतिविभागतः करोत्यर्थप्रतिपादनम्-तत्र सम्यगिति प्रशंसाओं निपात इत्यादिना / तत्रेत्यनेन सम्यग्दर्शनशब्दे ज्ञानादिषु च यः सम्यक्शब्दः स किमर्थान्तरमुररीकृत्य प्रवृत्तः१ नामाख्यातादीनां किमेतत् पदमिति पर्यनुयोगे सत्याह-सम्यगिति / इतिशब्दोद्विशुदस्य स्वरूपे स्थापयति, सम्यक्शब्द इत्यर्थः। प्रशंसा, अविपरीतता यथावस्थितपदार्थपरिच्छेदिता, साऽभिधेया वाच्याऽस्येति प्रशंसार्थः, निपात्यतेऽविद्योतकतया निपातः / इदं च किल निसर्गसम्यग्दर्शनाङ्गीकरणाद् व्याख्यानमव्युत्पत्तिपक्षाश्रयं परिगृह्यते, यतस्तत्पूजिततरं स्वत एवोपजायमानत्वात्, तदितरत् तु यद्यपि तथैवाविपरीतार्थतया विषयमवच्छिनत्ति तथापि तत्र परसाहायिकमस्ति तदस्मिन् पक्षे नावश्यतया श्रितम् ।एवं तावत् प्रकृतिप्रत्ययमनालोच्य सम्यकशब्दार्थो निरूपितः, व्युत्पत्तिपक्षेऽप्यर्थप्रदर्शनायाह-समचतेवों। सम्पूर्वादश्चतेः साध्यमेतद्रूपमिति, अर्थः पुनः गतिः पूजा वाश्रयणीयेति, तत्र पूजा पूर्वव्याख्या - नेन दर्शिता, इह तु गत्यर्थो वर्ण्यते, समञ्चति गच्छति व्याप्नोति सर्वान् यक् शब्दार्थः द्रव्यभावानिति सम्यक् / कः कर्थ इति चेत् यदेतद् दर्शनं रुचिरूपं तत् सम" श्चति व्याप्नोति एवमेते जीवादयोऽर्थाः यथा नयसामग्र्या जैनैराख्यायन्ते, न पुनरेकनयावलम्बिसाङ्ख्यवत् प्रतिपद्यन्ते, नित्या एवैते, अनित्या झति वा शाकलिकचीवरकवत्, न सन्ति वा लौकायतिकवदिति, कथञ्चित्सन्ति (कथञ्चिन्न सन्ति) कथञ्चिन्नित्याः कथश्चिदेवानित्याः द्रव्यपर्यायनर्यद्वयप्रपञ्चापेक्षयेत्याविष्करिष्यामः पञ्चमाध्याये / एवं च तत्र यदा दृष्टिः प्रवर्तते तदा सम्यगिति कथ्यते / वाशब्दो विकल्पप्रदर्शनाय / एतस्मिश्च पक्षे किलाधिगमसम्यग्दर्शनं कथितम् , यतस्तदेव प्रायोवृत्त्या द्रव्यपर्यायनयसमालोचनेन गुरूपदेशपूर्वकमितिकृत्वा यथावदवगच्छति शास्त्राद्यभ्यासादिति / एवं सम्यकशब्दं निरूप्य सम्प्रति दर्शनशब्दार्थकथना, यतः अनेकस्मिन् कारके च ल्युट् सम्भाव्यते करणादिके पश्यति स तेन तस्मिस्तस्मादित्यादि, अतो विशिष्ट एव कारके भावाख्ये दृश्यत इत्यादिभावो दर्शन मिति / दृष्टिा अविपरीतार्थग्राहिणी जीवादिकं विषयमुल्लिखन्तीव प्रवृत्ता सा सम्यग्दर्शनम् / अथ किमर्थमन्यानि कारकाणि निरस्य भावकारकमादिदेश भाष्यकारः ? उच्यते-ज्ञानमेव तत् तादृशं मुख्यया वृत्या तथाऽवस्थितं, ये तु तत्र करणादिव्यपदेशास्त उपचरिता इति कृत्वा न तेष्वादर इति भावं दर्शितवान् / दृशेरिति / एतत्पूर्वेण वा सम्बन्धमुपयाति दृशेयदेतद्दर्शनमिति रूपमेतत् भावे भावाभिधायि प्रतिपत्तव्यम्, अथवा परेण दृशेः प्राप्तिरुपलब्धिर्वाच्या सा चैवरूपा, अव्यभिचारिणीत्यादि। व्यभिचरत्यवश्य मिति१ धनुश्चिह्नितः अयं ख--पाठः / 2 'नयप्रपञ्चा' इति क-व-पाठः /