________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् व्यभिचारिणी, सा च एकनयमतावलम्बिनी, सामान्यमेवास्ति न विशेषाः सन्ति, विशेषमात्रं वा समस्ति न सामान्यमित्यादिका, यतः सा नयान्तरेणापक्षिप्यते असत्यत्वात्, अतो व्यभिचारिणी, न व्यभिचारिणी अव्यभिचारिणी, का, या सर्वान्नयवादान् साकल्येन परिगृह्य प्रवृत्ता कथञ्चित् सामान्यं द्रव्यास्तिकाज्ञाच्छन्दतः सत्यं विशेषाश्च पर्यायावलम्बनमात्रसत्या इत्यादिप्रपञ्चेनाव्यभिचारिणी, तां कथयति-सर्वेन्द्रियानिन्द्रियार्थप्राप्तिरिति / इन्द्रियानिन्द्रिय . सर्वाणि निरवशेषाणि, इन्द्रियानिन्द्रियाणि, इन्द्रस्याजीवस्य प्राप्तिस्वरूपम्। द लिङ्गानि श्रोत्रादीनि पञ्च, अनिन्द्रियं, मनोवृत्तिरोधज्ञानं चेति / - श्रोत्रादीनां पञ्चानां द्वयोश्चानिन्द्रिययोरर्थो विषयः शब्दादिः परिच्छेद्यः, श्रोत्रादिपरिच्छिन्नार्थानुसन्धायि च मनोविज्ञानमनुप्रवृत्तेः / ओघज्ञानमनिन्द्रियजमेवेन्द्रियानुसारिविज्ञाननिरपेक्षं, 'पृष्ठत उपसर्पन्तं सर्प बुद्धथैव पश्यन्तीति वचनात, वल्लयादीनां नीवाद्यभिसर्पणज्ञानं कचिन्मनोनिरपेक्षमिति, अतस्तेषामिन्द्रियानिन्द्रियार्थानामुपलब्धिः-प्राप्तिः स्वतः परतो वा तदर्थप्रकाशनोत्तरकालभाविनी ग्राह्या, न तु तेषां सर्वेन्द्रियाद्यर्थानां सन्निकर्षमात्रप्राप्तिरभिप्रेता, न च सर्वेन्द्रियाणां स्वेन विषयेण सहाश्लेषः समस्ति, यतश्चक्षुः स्वदेशस्थं योग्यदेशव्यवस्थितं रूपमारूपयति, नास्य गमने सामर्थ्यमस्ति, अप्राप्यकारित्वात् / श्रोत्रादीनि तु प्राप्तार्थग्राहीणि, प्राप्यकारित्वात् चत्वारि, मनोविज्ञानं तु तत्पृष्ठानुसारिविकल्पकम् , अतोऽव्यभिचारिणी सर्वेन्द्रियाद्युपलब्धिः, इदमेव तत्त्वं परमार्थः शेषः परमार्थो न भवति / एतत्सम्यग्दर्शनम् / सम्प्रति निपाते सम्यकशब्दे गृहीते योऽर्थस्तं भावार्थं च दर्शयति-प्रशस्तं दर्शनं सम्यग्दर्शनमिति / अविपरीतानां द्रव्यभावानां जगन्नाथाभिहितानामालम्बिका प्रवृत्तिः रुचिलक्षणा सा प्रशस्तं दर्शनमिति, प्रशस्तमुक्तिसुखहेतुत्वात् / तथा व्युत्पत्तिपक्षाश्रितो योऽर्थस्तं कथयति–सङ्गतं वा दर्शनं सम्यग्दर्शनमिति / नित्यानित्यसदसत्सामान्यविशेषेषु जैनप्रवचनानुसारात् तस्यैव विज्ञानस्य नयद्वयसमारोपणेन च प्रवृत्तिः सा सङ्गतमिति व्यपदिष्टा / एवं सम्यग्दर्शनशब्दावयवान्वाख्यानं कुर्वता भाष्यकृता सम्यग्ज्ञानचारित्रयोरपि काका कृतम् / सम्यग्ज्ञानशब्देऽपि सम्यकशब्दः प्रशंसाओं निपातः समश्चतेर्वा, ज्ञानमिति च भाव एव, एवं चारित्रमापि, स्वस्थाने च विशेषमाविष्करिष्याम इति // 1 // ____ सम्प्रति सम्यग्दर्शनादीनां यथाक्रमसन्निविष्टानामाद्यस्यैव लक्षणं यथोद्देशस्तथा निर्देश इत्यभिधातुकाम आह-"तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" (1-2) / ‘पदाक्षरवचनवाक्यानामभिप्रायविवरणं व्याख्य'ति वचनात् / प्रागवाचि वाचकमुख्येन "लक्षणतो विधानतश्योपदेक्ष्यामः " ( 1-1) इति, सत्यपि प्रमाणनयनिर्देशसदसदाद्यनेकानुयोगद्वारव्याख्याविकल्पे पुनः पुनस्तत्र तत्रैतदेव द्वयमुपन्यस्यन् भाष्याभिप्रायमाविष्करोति सरिः लक्षणविधाने एवास्मिन् शास्त्रे च प्रधानाधिकारिके इत्यतो लक्षणमुपन्यस्यति / अत्र पर्यायनि