________________ सूत्राणि 43-46] स्वोपज्ञभाष्य टीकालङ्कृतम् 313 केनाप्यभिप्रायेण / आगमस्तावदयम्-"सव्वसिद्धदेवाणं भंते ! केवतियं कालं ठिई पण्णता ? गोयमा! अजहण्णुकोसेणं तित्तीसं सागरोवमाई ठिई पन्नत्ता" (प्रज्ञा०प० 4, मू०१०२)। सौधर्मे देवीनां परिगृहीतानां जघन्येन पल्योपममुत्कर्षेण सप्त पल्योपमानि, अपरिगृहीतानां जघन्येन पल्योपममुत्कर्षेण तु पश्चाशत् पल्योपमानि, ऐशाने तु परिगृहीतदेवीनां सातिरेकं पल्योपममुत्कर्षेण नव पल्योपमानि, अपरिगृहीतानां जघन्धन सातिरेकं पल्योपममुत्कर्षण पञ्चपञ्चाशत् पल्योपमानीति // परतः परतः पूर्वा पूर्वानन्तरेत्यभिसम्बन्धुकामोत्राप्रकृतानामपि लघ्वथं पुनर्वक्तव्यगौरवभीत्याऽवतारयति सूत्रम्-नारकाणां च द्वितीयादिषु // 4-43 // भा०–नारकाणां च द्वितीयादिषु भूमिषु पूर्वा पूर्वा परा स्थितिरनन्तरा परतः परतोऽपरा भवति / तद्यथा-रत्नप्रभायां नारकाणामेकं सागरोपमै परा स्थिीतः, सा जघन्या शर्करामभायाम् / त्रीणि सागरोपमाणि नारकाणां स्थितिः / पपरा स्थितिः शर्करामभायां, सा जघन्या वालुकामभायामित्येवं सासु / तमःप्रभायां द्वाविंशतिः सागरोपमाणि परा स्थितिः सा जघन्या महात. माप्रभायामिति // 43 // ___टी०-सुज्ञानमेव भाष्यं प्रायः, सप्तम्यां चतुर्षु नरकेषु जघन्या द्वाविंशतिसागरोपमा स्थितिरुत्कृष्टा त्रयस्त्रिंशत् सागरोपमाणि, अप्रतिष्ठाने तु त्रयस्त्रिंशत् सागरोपमाण्यजघन्योत्कटेति // 43 // अथ प्रथमायां कथं जघन्या प्रतिपत्तव्येत्याह... सूत्रम्-दश वर्षसहस्राणि प्रथमायाम् // 4-44 // भा०-प्रथमायां भूमौ नारकाणां दश वर्षसहस्राणि जघन्या स्थितिः // 44 // टी०-दश वर्षसहस्राणि प्रथमायां प्रथमवसुधानारकाणां स्थितिर्जघन्यैतावतीति 44 सूत्रम्-भवनेषु च // 4-45 // . भा०-भवनवासिनां दश वर्षसहस्राणि जघन्या स्थितिरिति // 45 // टी-भवनवासिनामप्येषेव जघन्येति // 45 // सूत्रम्-व्यन्तराणां च // 4-46 // भा०-व्यन्तराणां च देवानां दश वर्षसहस्राणि जघन्या स्थितिः॥४६ / / टी-एषामपि जघन्या भवनवासिदेववद द्रष्टव्येति // 46 // सर्वार्थसिददेवानां भदन्त ! कियन्तं कालं स्थितिःप्राप्ता गौतम | अजधम्मोत्कर्षेण त्रयस्त्रिंशत् सागरोपमाणि स्पितिः प्राप्ता।