________________ 154 तत्त्वार्थादिगमसूत्रम् [ अध्यायः 2 प्याचार्येणोक्तम्-'ज्ञानैः पूर्वाधिगतैः ' (सम्बन्ध-का० 12) इत्यादि, तथा भगवत्यामाशीविषोद्देशके (श०८, उ०२, मू० 319) " अपज्जत्तगाणं भंते ! जीवा किं नाणी अण्णाणी? तिन्नि गोयमा! नाणा तिन्नि अण्णाणा भयणाए", तथा तस्यामेवैकोनविंशतिशते "मइअण्णाणी णं भंते ! मतिअण्णाणभावेणं किं पढमे अपढमे 1 गोयमा ! नो पढमे अपढमे, एवं सुअअण्णाणीवि" // ननु चागम एवोपयोगात्मा ज्ञानदर्शनव्यतिरिक्त उक्तः, भगवत्यां द्वादशशते-द्रव्यकषाययोगोपयोगज्ञानदर्शनचरणवीर्यात्मानोऽष्टौ भवन्ति, अत्र चोपयोगात्मा पृथगुपात्तः, स च विग्रहगतौ जीवानां भविष्यति, एतदपि वार्तम् ,यस्मात् तस्मिन्नेवात्माऽष्टकाधिकारे (श०१२, उ०१०, सू०४६७ ) उक्तम्-" जस्स दवियाता तस्स उवयोगाता णियमा अत्थि, जस्स उवयोगाता तस्स नाणाया वा दसणाया वा णियमा अस्थि" एवं सूत्रेऽतिस्पष्टेऽपि विभक्ते न विद्मः कुत इदं तेषां मोहमलीमसधियामागतम् ? अपिच-सूत्रे ज्ञानदर्शने एवोपयोगतामापन्ने बहिराकारपरिणतिनी सती समुपात्ते उपयोगग्रहणेन, न पुननिदर्शनव्यतिरिक्तः कश्चिदुपयोग इति, तथा तु ज्ञानदर्शनात्मैव, क्रोधादिकपायपरिणतः कपायात्मा उच्यते, न तद्व्यतिरिक्तोऽन्यस्तथाऽयमपि भविष्यति / एतेन कर्मानावृतप्रदेशाष्टकाविकृतचैतन्यसाधारणावस्थोपयोगभेदः प्रत्यस्तोऽवगन्तव्यः, तथा विग्रहगतिभाजामपर्याप्तकानां च जीवानामागमे लब्धीन्द्रियमुक्तम्-“जीवे णं भंते ! गम्भाओ गम्भं वकममाणे किं सइंदिए वक्कमइ अणिं दिए वर्कमइ ? गोयमा ! सिय सइंदिए सिय अणिदिए, से केणटेणं भंते ! एवं वुच्चइ ? गोयमा ! दन्विन्दियाइं पडुच्च अणिदिए वक्कमति, लद्धिन्दियाइं पडुच्च सइंदिए वक्कमति" (भग० श०१, उ०७, सू०६१)। तस्मादात्मनोऽवस्थाद्वयवर्तिनोऽवश्यं लब्धीन्द्रियमभ्युपेयम्, तदाश्रितं च मतिज्ञानादि, केवलं बाह्यकरणानिवृत्तौ ज्ञानविभागो नास्ति करणकृतस्तत्रेति / अथैतत् स्यात् , न ज्ञानसद्भावमपद्महे तदा वयम्, किन्तु ज्ञाने सत्यप्युपयोगो नास्तीति ब्रूमः, तदेतत् सुप्ताद्यवस्थास्वपि समानम् , अथवा विलक्षवचनमित्यपकण्यम् / तस्मादवस्थितमिदम्-द्विविध एवोपयोगो ज्ञानदर्शनाख्यः तद्वयतिरिक्तस्तु नास्ति / स इदानी द्विविध उपयोगो यथासङ्ख्यं यथानिर्देशमष्टभेदश्चतुर्भेदश्च भवति / पुनःशब्दः संख्यानियमार्थः / नातः परं विकल्पमर्हति, ज्ञानोपयोगो दर्शनोपयोगो वा। तमेवाधुना सङ्ख्यानियममाविष्करोति-ज्ञानोपयोगोऽष्टभेद इत्यादिना भाष्येणोद्देशनिर्देशरूपेण / मतिज्ञानोपयोग इति / मतिज्ञानाकारपरिणामस्तदात्मकत्व 1 अपर्याप्ता भदन्त ! जीवाः किं ज्ञानिनोऽज्ञानिनः 1 त्रीणि गौतम ! ज्ञानानि त्रीणि अज्ञानानि भजनया। 2 मत्यज्ञानी भदन्त ! मत्यज्ञानभावेन किं प्रथमोऽप्रथमः ? गौतम / न प्रथमः, अप्रथमः, एवं श्रुताज्ञान्यपि। 3 यस्य द्रव्यात्मा तस्य उपयोगात्मा नियमादस्ति,यस्योपयोगात्मा तस्य ज्ञानात्मा वा दर्शनारमा वा नियमादस्ति। ४जीवो भदन्त | गर्भात् गर्भ व्युत्क्रामन् कि सेन्द्रियो व्युत्कामति भनिन्द्रियो व्युत्क्रामति ?, गौतम ! स्यात् सेन्द्रियः स्यादनिन्द्रियः, तत् केनार्थेन भदन्तैवमुच्यते !, गौतम | द्रव्येन्द्रियाणि प्रतीत्य अनिन्द्रियो व्युत्क्रामति, लब्धीन्द्रियाणि प्रतीत्य सेन्द्रियो व्युत्क्रामति /