________________ 155 सूत्र 10 ] . स्वोपज्ञभाष्य-टींकालङ्कृतम् मात्मनः, तथा श्रुतज्ञानादिष्वपि योज्यम् / इतिशब्दः साकारोपयोगपरिसमाप्त्यर्थः / इतरत्राप्यज्ञानपरिसमाप्तये / चक्षुर्दर्शनोपयोग इति चक्षुरालोचनाकारपरिणाम आत्मनस्तदात्मकत्वं तद्रूपता, औपचारिकनयश्च ज्ञानप्रकारमेव दर्शनमिच्छति, शुद्धनयः पुनरनाकारमेव सङ्गिरते दर्शनमाकारवच्च विज्ञानम् / आकारश्च विशिष्यनिर्देशो भावस्य पर्यायतः प्रोक्तः, स च दर्शनसमनन्तरमेव सम्पद्यतेऽन्तर्मुहूर्तकालभावित्वात् / आकारपरिज्ञानाच प्रागालोचनमवश्यमभ्युपेयम्, अन्यथा प्रथमत एव पश्यतः किमपीदमिति कुतोऽव्यक्तबोधनं स्यात् ? यदि चालोचनमन्तरेणाकारपरिज्ञानमुत्पादत एव पुंसः स्यात् तथा सत्येकसमयमात्रेण स्तम्भकुम्भादीन् विशिष्य गृह्णीयात्, न च तथोपलभ्यते, अपिचसमयमपि सङ्गृह्णीयान्न च केवलिनमन्तरेण समयग्रहणमस्ति ? / अपरे वर्णयन्ति-वर्तमानकालविषयं तु सदर्थग्रहणं दर्शनम्, त्रिकालविषयं साकारं ज्ञानमिति, एतदपि वार्तम् , वर्तमानस्य परमनिरुद्धसमयरूपत्वाद् विवेचनाभावः, तस्मात् छद्मस्थानामनाकाराद्धाऽल्पत्वादेवाव्यक्ता, साकाराद्वाऽऽधिक्याच्चान्तर्मुहूर्तिकी व्यक्ता भवति, न चान्तर्मुहूर्तादुपर्येकत्रावधानमस्ति वस्तुनि, प्रत्यक्षमेतत् , अनाकाराद्धा साकाराद्धा द्वयपरावृत्तिश्च प्राणिनां स्वभावादुपजायमाना स्वसंवेद्या च नापहन्तुं शक्याऽतिबहुभिरपि हेतुभिः / अत्र च यथा साकाराद्धायां सम्यमिथ्यादृष्टयोर्विशेषः, नैवमस्ति दर्शने, अनाकारत्वे द्वयोरपि तुल्यत्वादित्यर्थः / चक्षुर्दर्शनवदचक्षुर्दर्शनं वाच्यं शेपेन्द्रियविषयम् , अथवेन्द्रियनिरपेक्षमेव तत् कस्यचिद् भवेद् यतः पृष्ठत उपसर्पन्तं सर्प बुद्धथैवेन्द्रियव्यापारनिरपेक्षं पश्यतीति / अवधिदर्शनं तु सम्यग्दृष्टेरेव, न मिथ्यादृष्टेः, चक्षुर्दर्शनमेव किल तस्येति पारमर्षी श्रुतिः / केवलज्ञानोपयोगप्रवाहविच्छेदेऽनाकाराद्धा केवलदर्शनमुच्यते स्वाभाविकम् , अनाकारग्रहणकालश्च तत्र नाकर्तुमलमल्पत्वा. द् भावात् , न पुनस्तन्नाकरोति, यथा समयमात्रेणागृह्णानः पुमान् घटकमन्य इति न व्यपदिश्यते तद्ग्रहणशक्तियुक्तत्वाद, अल्पिष्ठकालत्वादशक्तस्तद्ग्रहे तथा भगवानपीति // 9 // एवमेतत् सर्वगतिवर्तिनां जीवानामिन्द्रियकषायलेश्यादिविशेषवतामप्यविलक्षणं लक्षणमुक्तम्, ते पुनरुपयोगलक्ष्याः कतिविधा जीवा इति प्रकारान्तरेण तावद द्वैविध्यं वर्णयितुकाम आह सूत्रम्-संसारिणो मुक्ताश्च // 2-10 // भा०-ते जीवाः समासतो द्विविधा भवन्ति-संसारिणो मुक्ताश्च // 10 // किश्चान्यत् / टी-संसारिणो मुक्ताश्च / यदवष्टम्भेनात्मनः संसरणम्-इतश्चेतश्च गमनं भवति 1 ‘स गृह्णीयान ' इति प्रतिभाति / 2 'द्धान्तमुहर्तिकी ' इति क-ख-पाठः /