________________ 322 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 सतीति // अपरे त्वाहुः-किलाचार्येण सूत्रमेवमधीतम्-नित्यावस्थितान्यरूपीणीति, अत्र च बहुव्रीहिणोक्तवान्मत्वर्थीयानुपपत्तिरिति / अत्रोच्यते-कचिद् बहुव्रीहिं बाधित्वा तत्पुरुषवृत्ती मत्वर्थीयो भवति, तद्यथा-"इधार्योः शत्रकृच्छ्रिणि" ( पा० अ० 3, पा० 2, स० 130), तथा अनरवन्ति चक्राणि, सर्वधनादित्वाद् वा // अपरे ब्रुवते-भवतु मत्वर्थीयोऽत्राहः, सच मतुरेव रसादिपाठान्नत्विनिरिति, उक्तं तत्रान्यतरस्यांग्रहणं समुच्चयार्थमित्यदोपः॥ भाष्यमधुनाऽऽश्रियते भा०-एतानि द्रव्याणि नित्यानि भवन्ति / तद्भावाव्ययं नित्यम्' (अ०५, सू. 30) इति च वक्ष्यते / अवस्थितानि च, न हि कदाचित् पञ्चत्वं भूतार्थत्वं च व्यभिचरन्ति // अरूपाणि च, नैषां रूपमस्तीति / रूपं मूर्तिः, मूल्याच स्पोदय इति // 3 // टी-एतानि द्रव्याणि नित्यानीत्यादि भाष्यम् / एतानि-अनन्तराविष्कृतानि पञ्चापि धर्मादीनि, द्रव्याणीति द्रव्यास्तिकनयाभिप्रायेण, न तु पर्यायसमाश्रयणात्, द्रव्यास्तिको हि धौव्यमेवेच्छति,नोत्पादविनाशौ,अतः तदभिप्रायेणैषामाचार्यः शास्ति नित्यताम् अन्यथा द्रव्या स्तिकनयनिरपेक्षनिरूपणायामकान्तवादः स्यात्, स च बहुविधदोषाघ्रातत्वात् सामीक्षिकाभिप्रा. यवदसमञ्जसः स्यात् // ननु चैवमेकनयनिरूपणा न जैनेन्द्रदर्शनप्रतिपूरणायालम, सत्यमेतत, किन्तु द्रव्यास्तिकपयोयास्तिकयोः प्रधानगुणभावविवक्षावशाद् वस्तुतत्त्वमुपनीयते झातपुत्रीयैः, अन्यथा हीत्थं वस्तुप्रज्ञापनाऽतिदुष्करा स्यात्, अतः प्रज्ञापनेयमभिन्नांशस्य वस्तुनो नरसिंहस्येव नरकेसरिशब्दभेदेन / तत्र हि द्रव्यास्तिकस्य प्राधान्यमाश्रित्येतरस्य च गुणभावं नित्यता प्रज्ञाप्यते, यथा चैतानि नयद्वयोपसंगृहीतानि तथा प्रथमसूत्रेऽभिहितमभिधास्यते च त्रिसूत्र्यामिति / तमेव च ध्रौव्यांशं द्रव्यास्तिकनयप्रज्ञाप्यमादशयितुमाह-नित्यानि भवन्ति 'नर्धवे त्य' (सिद्ध० अ० 6, पा० 3, सू० 17 ) इति नित्यानि ध्रुवाणि, नोत्पादविनाशवन्तीतियावत, भवन्तीत्यनेन सकलकालाविकारिणी सत्ताऽऽख्यायते धर्मादीनाम, तच्च नित्यलक्षणं वक्ष्यमाणमुट्टयति-तद्भावाव्ययं नित्यमिति / यत् सतो भावात न व्येति न व्येष्यति तन्नित्यमिति भवतीति भावः / योऽसौ भवति स कर्ता द्रव्यम्, सच तस्मात स्वरूपान्न विगमेन युज्यते योक्ष्यते वाप्तो नित्य उच्यते, न कदाचित् सदूपतां परि. त्यक्ष्यतीत्यर्थः॥अधुनाऽवस्थितशब्दार्थ निरूपयति नित्यावस्थितयोरभेदभ्रान्तिमपनयन्-मा भूत् सङ्करोऽनयोः, अन्यन्नित्यलक्षणमन्यच्चावस्थितलक्षणमिति, अवस्थितानि च, नहि कदाचित् पश्चत्वं भूतार्थत्वं च व्यभिचरन्ति / नित्यत्वानुज्ञापेक्षया चशब्दोपादानम्, अवस्थितानि भवन्ति धमोदीनि द्रव्याणि, तचावस्थानमेषां वाक्यान्तरेण निरूप्यते-न कदाचित् पञ्चत्वं व्यभिचरन्ति, तद्भावाव्ययतायां सत्यामियत्तैषां निर्धार्यतेऽवस्थितशब्दोपादानात, १'इन्द्रार्योः शक्रकृच्छ्रीणि इति ग-पाठः। २'अरूपाणि इतिघ-पाठः, 'अरूपीणि' इति तुस-पाठः /