________________ सूत्र 3] स्वोपज्ञभाष्य-टीकालङ्कृतम् 323 पञ्चैव भवन्त्येतानि न न्युनान्यधिकानि वेति सङ्ख्यानियमोऽभिप्रेतः, सर्वदा पञ्चास्तिकायात्मकत्वाज्जगतः, कालस्य चैतत्पर्यायत्वादिति / नापि भूतार्थत्वं व्यभिचरन्त्येतानि, अतोऽवस्थितान्युच्यन्ते / अन्योन्याववन्धितायां सत्यामपि धर्मादीनि न स्वतत्वं भूतार्थत्वं वैशेषिकं लक्षणमतिवर्तन्ते, तच्च धर्माधर्मयोर्गतिस्थित्युपग्रहकारिता, नभसोऽवगाहदानव्यापारः, स्वपरप्रकाशिचतन्यपरिणामो जीवानाम्, अचैतन्यशरीरवाङ्मनःप्राणापानसुखदुःखजीवितमरणोपग्रहमूतत्वादयः पुद्गलानाम् / अथवाऽसङ्ख्येयादिप्रदेशानादिपरिणामस्वभावता वा भूतार्थता मूर्तताऽमूर्तता चेति, तां न जातुचिदनादिकालप्रसिद्धिवशोपनीता मर्यादामतिकामन्ति, स्वलक्षणव्यतिकरो हि निर्भेदताहेतुः पदार्थानाम्, अतः स्वगुणमपहाय नान्यदीयगुगसम्परिग्रहमेतान्यातिष्ठन्ते, तस्मादवस्थितानीति / अरूपाणि च, नैषां रूपमस्तीति / न समुदायविशेषणमेतदरूपाणीत्यसम्भवाद् धर्माधर्माकाशजीवेषु चतुर्वेव सम्भवत्यमूर्तत्वं, न पुनः पुद्गलेषु, अत एव प्रसक्तो सत्यामुत्तरसूत्रेण निषेधः करिष्यते, चक्षुग्रहणलक्षगं रूपं तदविद्यमानं येषां तान्यरूपाणीत्यरूपत्वाचक्षुषा नैतानि गृह्यन्ते, न तु चक्षुषेषामगृय नाणत्वमरूपत्वे कारणमुच्यते, परमाण्वादिभिरनेकान्तात्, तस्मादरूपिग्रहणं द्रव्यस्वतत्वनिपिनार्थ मूर्तिमत्त्व निवृत्तिप्रकाशनाय, प्रात्ययिकोत्पादवत्त्वे तु भाज्यममुल्याकाशादिवत्, स्वतस्तु नै रूपमस्तीति / किं पुना रूपं नामेत्यत आह-रूपं.मूर्तिः, मूर्तिर्हि रूपादिशब्दाभिधेया, सा च रूपादिसंस्थानपरिणामा, नासर्वगतद्रव्यपरिमाणलक्षणा, व्यभिचारदर्शनात्, सर्वतः परिमितत्वे लोकस्य आत्मनोऽपि मूर्तिमत्त्वप्रसङ्गः, काणभुजानां (2) परिमितत्वं चावश्यमभ्युपेयं विशिष्टसंस्थानत्वादिभिलॊकस्य, अतो रूपमेवाव्यभिचारित्वान्मूर्तिरुच्यते / अपरेऽभिदधति-रूपशब्दो नीलादिवर्णाभिधायी समस्ति, अस्ति च दीर्घादिसंस्थानप्रतिपादनपरः,तद् यः संस्थानप्रतिपत्तिमाविष्करोति रूपशब्दस्तमुररीकृत्यावोचदाचार्यों रूपं मूर्तिरिति, एवं विधमूर्त्याश्रिताश्च स्पोदयः किल सर्वदा न कदाचिदसंस्थाना भवितुमर्हन्ति, अन्यथा वान्ध्येयव्योमकुसुममण्डूकशिखण्डकल्पाः स्युरिति / अत्र पक्षे धर्माधर्मसिद्धसंस्थानैरनेकान्तः ।तस्माद् रूपमेव मूर्तिरस्तु / एवं तर्हि गुणमा मूर्तिशब्दस्य विषयः प्रसक्तः, न च रूपमेव मृर्तिरिति,उच्यते-द्रव्यास्तिकनयावष्टम्भात् सकलमिदं निरूप्यते, तत्र किमाश्वेव विस्मृतं भवतः, न खलु रूपादयस्तस्य केचिन्मूत्यो विविक्ताः न सन्ति, सैव हि मूर्तिद्रव्यस्वभावा चक्षुर्ग्रहणमासाद्य रूपमिति व्यपदिश्यते, अत एव पुनराह सहचराव्यभिचारप्रदिदर्शयिषया-मृाश्रयाश्च स्पर्शादय इति / न खलु मूर्ति स्पर्शादयो व्यभिचरन्ति,सहचरितत्वात्,यत्र रूपपरिणामः तत्रावश्यन्तया स्पर्शरसगन्धैरपि भाव्यम्, अतः सहचरमेतच्चतुष्टयम्, अतः परमाणावपि विद्यते, न च परमाणवश्चतुर्गुणादिजातिभेदभाजः, सर्वेषामेकरूपत्वात्, इयांस्तु विशेषः-किश्चिद् द्रव्यमुत्कटं गुणप. रिणाममासाद्य तमेव त्यजति, यथा लवणहिगुनी संहतिपरिणामसामर्थ्यवती लोचनस्पर्शनग्रहणगोचरतामुपेत्य जले विलीने सति रसनघ्राणग्रहणयोग्यतामागच्छतः, न च वर्णस्पर्शी तत्र