________________ 85 सूत्र 16 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् दिस्पर्शानां यं किश्चिदेकं स्पर्शमवगृह्णाति अन्यान् सतोऽपि क्षयोपशमापकर्पात् न गृहणाति तदाल्पम्-एकमवगृह्णातीत्युच्यते / बहुविधमवगृह्णातीति। बढ्यो विधा यस्य स बहुविधः तमवगृह्णाति / बहुविधो नाम स एव योपिदादिस्पर्श एकैकः शीतस्निग्धमृदुकठिनादिरूपो यदाऽवगृह्यते तदा बहुविधं गुणैर्भिन्नं स्पर्श परिच्छिन्दत् तज्ज्ञानं बहुविधमवगृह्णातीत्युच्यते। यदा तु योपिदादिस्पर्शमेवैकगुणसमन्वितं शीतोऽयमिति वा स्निग्धोऽयमिति वा मृदुरयमिति वेत्येवमवच्छिनत्ति तदा एकविधमवालातीत्युच्यते / तमेव भूयो योषिदादिस्पर्शमाशु स्वेनात्मना यदाऽवच्छिनत्ति तदा क्षिप्रमवगृह्णातीति भण्यते / यदा तु तमेव योपिदादिस्पर्श स्वेनात्मनावच्छिनत्ति बहुना कालेन तदा चिरेणावगृह्णातीत्युच्यते / चिरेणेति बहुना कालेन / अनिश्रितमवगृहणातीति निश्रितो लिङ्गप्रमितोऽभिधीयते, यथा यथिकाकुसुमानामत्यन्त शीतमृदुस्निग्धादिरूपः प्राक स्पर्शोऽनुभूतस्तेनानुमानेन लिङ्गेन तं विषयं न यदा परिच्छिन्दत् तज्ज्ञानं प्रवर्तते तदा अनिश्रितं अलिङ्गमवगृहातीत्युच्यते / यदा त्वेतस्मादाख्याताल्लिङ्गात् परिच्छिनत्ति निश्रितं तदा स लिङ्गमवगृह्णातीति भण्यते / उक्तमवगृह्णातीत्ययं तु विकल्पः श्रोत्रावग्रह विषय एव न सर्वव्यापीति / यत उक्तमुच्यते शब्दः स चाप्यक्षरात्मकः तमवगृह्णातीति / अनुक्तस्तूक्तादन्यो " नजिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थ(गतिः)" (परिभाषेन्दशेखरे 10 74 ) इति अनया कल्पनया शब्द एवानक्षरात्मकोऽभिधीयते तमवगृह्णाति अनुकमवगृह्णातीति भण्यते / अव्याप्तिदोपभीत्या चापरैरिमं विकल्पं प्रोज्झ्य अयं विकल्प उपन्यस्तो निश्चितमवगृह्णातीति, निश्चितं सकलसंशयादिदोषरहितमिति, यथा तमेव योषिदादिस्पर्शमवगृहृत् ज्ञानं योषित एव पुष्पाणामेव चन्दनस्यैवेत्येवं यदा प्रवर्तते तदा निश्चितमवगृणातीत्युपदिश्यते / अनिश्चितमवगृह्णातीति च कदा व्यपदिश्यते / यदा तमेव स्पर्श संशयापन्नः परिच्छिनत्ति स्पर्शोऽयं भवति एवं तु न निश्चिनोतियोषित एवायं, विलोमधर्मादेरपीदृशो भवति स्पर्श इति संशयप्रादुर्भावात् / ध्रुवमवगृहणातीति / ध्रुधमत्यन्तं सर्वदेत्यर्थः / यदा यदा तस्य तेन स्पर्शन योगो भवति गोषिदादिना तदा तदा तमर्थमवच्छिनत्तीत्यर्थः / एतदुक्तं भवति-सति चोपयोगे यदाऽसौ विषयः स्पर्शाख्यः स्पृष्टो भवति तदा तमवगृह्णाति, एवम् अध्रुवमवगृहणातीति / सतीन्द्रिये सति चोपयोगे सति च विषयसम्बन्धे कदाचित् तं विषयं तथा परिच्छिनत्ति कदाचिन्नेत्येतदध्रयमवगृह्णातीत्युपदिश्यते। एवमित्यनेनैतत् कथयति-यथा विपयस्य बहादेर्मेदाद् द्वादशप्रकारोऽवग्रहोऽभिहितः क्षयोपशमोत्कर्षापकर्षाद् एवम् ईहादीनामपि ईहापायधारणानामपि जानीयाद, बहीहते अल्पमीहते बहुविधमीहते एकविधमीहते क्षिप्रमीहते चिरेणेहते अनिश्रितमीहते निश्रितमीहते उक्तमीहते अनुक्तमीहते, द्वितीय विकल्प निश्चितमीहते सन्दिग्धमीहते ध्रुवमीहते अध्रुवमीहते / एवमपायेऽपि बहपैतीत्यादयो द्वादश विकल्पाः, धारणायां च बहु धारयतीत्यादयो द्वादशैव, एवमवग्रहादीनां स्वस्थाने द्वादशविधत्वम् // 16 //