________________ तवार्थाधिगमसूत्रम् [श्रीदेवगुप्तवर्ज, एते ह्यतिचारवशेन भवतः, निरतिचारश्चायं शेषत्रयं त्ववस्थाविशेषवशेन सम्भवेत् / संवरो निरुद्ध सर्वाश्रवत्वात् कृत्स्नः / तपो बाह्यं षड्विधमपि, अन्तस्तपसस्तु विनयव्युत्सर्गे यथासम्भवम् / ध्यानं तु प्रधानकर्मक्षयकारणत्वात् समाधिरिति कण्ठोक्तमेव / अनेन बलेन युक्तः / मोहादीत्यादि, मोहज्ञानदर्शनावरणान्तरायानिहत्य प्रक्षपय्य, अशुभानि, गतार्थस्वेऽप्यशुभग्रहणमन्यकर्मभ्योऽशुभतरतमख्यापनार्थ, चत्वारि कर्माणीतिव्युत्क्रान्त्यानुपूर्व्या केवलोत्पत्तिसूत्रसम्बन्धसङ्ख्याख्याज्ञापनार्थमुक्तम्, ते हि चत्वारोऽपि संसारदुःखप्रतिभयप्रदाः शत्रवः // 17 // किं फलमित्याहकेवलमधिगम्य विभुः, स्वयमेव ज्ञानदर्शनमनन्तम्। लोकहिताय कृतार्थो-पि देशयामास तीर्थमिदम् // 18 // आर्या व्या०-केवलमित्यादि / केवलममिश्रमसाधारणमधिगम्य प्राप्य, विभवीति विभुः सर्वगतज्ञानात्मेत्यर्थः / स्वयमेव स्वशक्त्यैव, न राजेव सामन्तादिमिश्रः। किं तत्, केवलं ज्ञानं दर्शनं च वक्ष्यमाणम् , अनन्तं न कचित्प्रतिहतं सर्वत्रगमत एव विभुरित्युक्तम् / अधिगम्य किं कृतमित्याह-लोकहितायेत्यादि, सर्वमेतद्गतार्थम्, इदमिति यदेवेदमधुना प्रवर्तते // 18 // कियत् पुनस्तदित्याहद्विविधमनेकद्वादश-विधमहाविषयममितगमयुक्तम् / .. संसारार्णवपारग-मनाय दुःखक्षयायालम् // 19 // आर्या व्या०-विविधमित्यादि / वक्ष्यमाणमेतन्महाविषयं सर्वद्रव्याण्यसर्वपर्यायाणि त्रैकाल्यमस्येति / अमितगमयुक्त, गमाः पन्थानो नयाः रक्ष्यमाणास्तैरसङ्ख्येयैर्युक्तमभिसन्ततम् / कियद्गुणमित्याह-संसारेत्यादि, संसृतिः संसारः, संसरणं वा संसारः, स नामादिश्चतुर्विधो वक्ष्यते, स एव अर्णवः संसारार्णवः / कथं चासावर्णवः, नरकतिर्यग्मनुष्यामरगतिचतुष्टयदुस्तरविपुलपात्रः / प्रियाप्रियविरहसम्प्रयोगक्षुदभिघातादिसन्निपातप्रतिभयानेकदुःखागाधसलिलः परोपघातिक्रूरानार्यजनानेकमकरविचरितविषमः मोहमहानिलप्रेरणाध्मायमानगम्भीरभीषणप्रमादपातालः नरकादिविकृतमीमवडवामुखग्रस्यमानानेकपापकर्मसत्त्वः रागद्वेषप्रबलानिलोद्धतसंजायमानवीचीप्रसृताशयवेलः तदेवमस्य भगवन्तो यतयो द्वादशाङ्गविपुलशरीरं सम्यग्दर्शनायोपबद्धसन्धिः प्राणिदयादिव्रतसम्पन्नकनिरुद्धाश्रवद्वारं सन्तोपमितस्वादकाद्युपहितपावनं विशुद्धज्ञानसन्निहितनिर्यामकं सकलचारित्रविधानानुकूलपवनप्रेरितं विशुद्धध्यानबलोपहितसर्वमगलरक्षं प्रवचनयानपात्रमारुह्य संसारार्णवस्य पारप्राप्तिफलं शिवमक्षयमनामयं मोक्षमवाप्नुवन्तीत्येवमेतत् अलं पर्याप्तं संसारार्णवपारगमनायेत्युच्यते. अत