________________ सूत्र 13 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् वक्ष्यामः // 12 // अत्राह-उक्तं भवता मत्यादीनि ज्ञानानि उद्दिश्य-तानि विधामतो लक्षणतश्च पुरस्ताद विस्तरेण वक्ष्याम इति। तदुच्यतामिति / अत्रोच्यते टी-मिथ्यादृष्टहीत्यादि / यस्मान्मिथ्यादृष्टेज॑न्तोर्मतिश्रुतावधयस्त्रयोऽपि निश्चयेन कुत्सितमेव ज्ञानमज्ञानमिति भणिष्यते। यद्येवं कथं तर्हि मतिश्रुतयोरन्तभूतानीत्युक्तम् ? उच्यते-नयवादमाश्रित्यैतदुक्तम् / केन तर्हि नयवादान्तरेण मतिश्रुतान्तर्गतानीत्याहनयवादान्तरेण तु इत्यादि / नया-नैगमादयः तेषां वादः-स्वरुचितार्थप्रकाशनं नयवादः तस्य अन्तरं-भेदो नयवादान्तरं तेन नयवादभेदेनैव / यथा मतिश्च श्रुतं च मतिश्रुते तयोविकल्पा-भेदास्तेभ्यो जायन्त इति मतिश्रुतविकल्पजानि भवन्ति यथा तथा पुरस्तात् नयविचारणायां वक्ष्यामः (1-35) इतिशब्देन यस्य हि मिथ्यादृष्टिरज्ञो वा नास्तीति वक्ष्यति तन्मतेन तु प्रमाणानीति // 12 // __अत्रेति / एतस्मिन् ज्ञानपञ्चके कथिते सामान्येन प्रमाणद्वये च-प्रत्यक्षपरोक्षरूपे विहिते, परोऽवोचत्-उक्तं-प्रतिपादितं त्वया, किमिति चेत् उच्यते-मत्यादीनि पञ्च ज्ञानानि-मतिश्रुतावधिमनःपर्यायकेवलान्येव उद्दिश्य, तत इदमभिहितं तदुच्यते -तानि विधानतो लक्षणतश्च पुरस्तादू विस्तरेण वक्ष्याम इत्येतत् // ननु च नैवंविधं तत्र सूत्रे भाष्यमस्ति-विधानतो लक्षणतश्चेति, कथमयमध्यारोपः क्रियते गुरोरिति ? / उच्यते-सत्यमेवंविधं भाष्यं नास्तीति, एवं पुनः समस्ति-प्रभेदास्त्वस्य पुरस्ताद वक्ष्यन्त इति (1-9) / अतः प्रभेदा-मतिज्ञाने विधानलक्षणरूपाः प्रतिपाद्यन्ते तत्र माष्ये, अतो नाध्यारोप इति / विधान-भेदः, मतिज्ञानं सभेदकं वक्ष्यामीति प्रतिज्ञातम् , तथा लक्षणम्-असाधारणं यच्चिद्रं मत्यादेस्तच्च वक्ष्यामीति प्रत्यज्ञायि, तदुच्यतां विधानं लक्षणं चेति, एवं पयेनुयुक्त आह-अत्राच्यत इति // ___अत्रैतास्मंश्चोदिते उच्यते मया, लक्षणमल्पविचारत्वात् , अनेन सूत्रेण मतिः स्मृत्यादिना / अथवा नैव मतिज्ञानस्यानेन सूत्रेण लक्षणं कथयति, प्रतीतत्वात् , प्रतीतं हि लोके इन्द्रियानिन्द्रियजं ज्ञानं, यच्च प्रतीतं न तस्य लक्षणमाचक्षते विचक्षणाः, नहि हुताशनस्योप्णतालाञ्छनमत्यन्तप्रतीतत्वादभिदधते विद्वांसः, किं तर्हि सूत्रेण प्रतिपादयति ? उच्यतेलक्षणं द्विविधं तत्स्थमतत्स्थं चेति, तत्स्थमनेरोष्ण्यवत्, अतत्स्थं वारिणो बलाकादिवत् , मतिज्ञानस्य लक्षणं यत्तत्स्थं न पुनस्ततो ज्ञानाद् भिन्नमित्येतदादर्शयति सूत्रेण // सूत्रम्-मतिःस्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनान्तरम् // 1.13 // री-मतिः स्मृतिः संज्ञेत्यादि। अत एव च ज्ञानशब्दं प्रत्येकं लगयति भा०-मातिज्ञानं स्मृतिज्ञानं संज्ञाज्ञानं चिन्ताज्ञानं आभिनिबोधिकज्ञानमित्यनर्थान्तरम् // 13 // 'तत्र' इति क-ग-पाठः /