________________ GA तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 नीति मन्यन्ते, तत् कथमित्येवं मन्यन्ते, किमेषां तानि न सन्ति प्रमाणत्वेन ? उत प्रमाणान्तराणि न भवन्तीति / अत्रोच्यते मया भा०-सर्वाण्येतानि मतिश्रुतयोरन्तर्भूतानि, इन्द्रियार्थसन्निकर्षनिमित्तस्वात् / किश्चान्यत् / अप्रमाणान्येव वा। कुतः 1 / मिथ्यादर्शनपरिग्रहात् , विपरीतोपदेशाच // टी-सर्वाणि इत्यादि / सर्वाणि-समस्तानि एतानि-अनुमानादीनि मति __ ज्ञानश्रुतज्ञानयोरेव अन्तर्भूतानि-प्रविष्टानि / कयोपपत्त्येति चेत् तामुअनुमानादीनामि : पपत्तिमाह-इन्द्रियार्थेत्यादि / इन्द्रियाणि-चक्षुरादीनि तेपामर्थान्द्रियार्थसंबन्ध रूपादयः इन्द्रियाणि चार्थाश्च इन्द्रियार्थास्तेषां सन्निकर्षः-सम्बन्धः स इन्द्रियार्थसन्निकर्षो निमित्तं यस्य अनुमानादेस्तदिन्द्रियार्थसन्नि कर्षनिमित्तम्-अनुमानादि / कथं पुनरिन्द्रियार्थसन्निकर्पः कारणमनुमानादेः ? / उच्यतेअनुमानं तावच्चक्षुरादीन्द्रियधूमाद्यर्थसन्निकर्षजम्, अन्यथा तस्यासम्भवात्, इन्द्रियनिमित्तत्वात् सपरार्थस्यानुमानस्येति / उपमानमपि चक्षुरादीन्द्रियगवाद्यर्थसन्निकर्षजम् / आगमाख्यमपि श्रोत्रेन्द्रियस्य अनिन्द्रियस्य वा आप्तवचनार्थस्य सन्निकर्ष सति प्रादुरस्ति / शब्दा पत्तिरप्येवमेव / अर्थार्थापत्तिस्तु चक्षुरादेरिन्द्रियस्य नीलादे रूपस्य च सन्निकर्ष एवोपजायते / सम्भवोऽपि प्रस्थमर्थ दृष्ट्वा श्रुत्वा वा प्रादुरस्ति, एवं चक्षुःश्रोत्रयोः प्रस्थार्थप्रस्थशब्दयोः सन्निकर्षे सति तदुदेति / अभावोऽपि प्रमाणं प्रमेयाभावविषयः, मनसा विकल्प्यार्थमुत्तरत्र स एव विषयीभवति विकल्पितोऽर्थो, नानुमानादसौ भिद्यत इति, एवमिन्द्रियार्थ सन्निकर्षनिमित्तान्येतानि मतिश्रतयोरन्तर्भाव यान्तीति // किंचान्यअनुमानादीनामप्रामा': दिति पक्षान्तरमाश्रयति / अप्रमाणान्येव वा / नैवानुमानादीनि प्रमा ॐ णानि, मिथ्यादर्शनसमन्वितत्वात्, अयथार्थोपदेशव्यापृतत्वात् उन्मत्तकवाक्यविज्ञानवत, एतदेवाह-मिथ्यादर्शनेत्यादि / मिथ्यादर्शनम्-एकनयाश्रयणं तेन गृहीत मिथ्यादर्शनपरिग्रहो भण्यते, यत एव च मिथ्यादर्शनपरिग्रहोऽत एव विपरीतोपदेशादिति / विपरीतम्-अन्यथावस्थितं नानाधर्मकं सद्वस्तु एकधर्मकमाश्रितं विपरीत भण्यते, तस्य उपदेशः कथनं विपरीतोपदेशस्तस्मात् , यत एतान्येकनयावलम्बीन्यनुमानादीनि विपरीतमेकान्तपक्षाश्रितं वस्तु विच्छिन्दन्ति तस्मादप्रमाणानि परिकल्पितानीति / न च मिथ्यादृष्टिगृहीतं कदाचिदपि ज्ञानं भण्यते, किन्त्वज्ञानमेव, संसारहेतुत्वात्, एतच्चोत्तरत्र निदर्शयिष्यत्येव / यत आह भा०-मिथ्यादृष्टेहि मतिश्रुतावधयो नियतमज्ञानमेवेति वक्ष्यते (1-32 ) / नयवादान्तरेण तु यथा मतिश्रुतविकल्पजानि भवन्ति तथा पुरस्ताद् (1-35) 'विकल्पिताऽर्थो' इति क-ग-पाठः / 2 'धर्मकदम्बकं सदस्त ' इति क-ग-पाठः। -