________________ 75 सूत्र 12 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् न्तमिन्द्रियाणि अतीन्द्रियं ज्ञानं तद्भावोऽतीन्द्रियत्वं तस्मादिति, यत् प्राणिनां ज्ञानदर्शनावरणक्षयोपशमात् क्षयाच इन्द्रियानिन्द्रियद्वारनिरपेक्षमात्मानमेव केवलमभिमुखीकुर्वदेति तत प्रत्यक्षं-अवध्यादि। एवं तत् प्रमाणे (1-10) इति द्वित्वसङ्ख्यायाः परोक्षप्रत्यक्षाख्यो यो विपयस्तमुपदर्य प्रमाणशब्दार्थकथने प्रावृतद् भाष्यकारः-प्रमीयन्तेऽस्तैिरिति प्रमाणानीति। (प्रमीयन्ते)-परिच्छिद्यन्ते-यथावनिश्चीयन्ते सदसन्नित्यानित्यादिभेदेनार्था-जीवादयस्तैरिति प्रमाणानि, करणे ल्युट्, करणं ज्ञानमात्मनः, आहितप्रधानकारणस्य स्वतन्त्रस्य कर्तुरनेककारकशक्तियुक्तस्य साधकतमत्वविवक्षावशादवच्छेदिका शक्तिरर्थस्य करणव्यपदेशमश्नुते, तया करणभूतया परिच्छिनत्ति-अवबुद्धयते ज्ञानपरिणतिरूपयाऽऽत्मैव / तैरिति / प्रमाणद्वयेऽभ्युपगते बहुवचनमयुक्तमिति चेत्, न, व्यक्तिपक्षसमाश्रयणादिति, यतो मत्यादिकाः पञ्च व्यक्तयः, तासां बहुत्वात् समीचीनमेव बहुवचनमिति / एवं द्वे परोक्षप्रत्यक्षे प्रमाणे भवत इति ख्यापिते चोदयति-इह शास्त्रे निर्धारितमेतद्-द्वे एव प्रमाणे, अन्यथा तत् प्रमाणे इत्यत्र या द्वित्वसङ्ख्या सा व्यथैव स्यात्, यद्यवधारणतया नाश्रीयेत, तस्मादवश्यंतया तद् . वचनं नियमकारि प्रतिपत्तव्यम्-द्वे एव प्रमाणे, के च ? प्रत्यक्षपराक्षे अनुमानादीनां . इति, ततश्चान्येषामप्रमाणता आपन्ना, न च न सन्त्येवान्यानि, यतोऽनुप्रामाण्यविचारः " मानादीनि प्रमाणानि मन्यन्ते, साङ्ख्याः प्रत्यक्षानुमानागमाख्यानि श्रीणि, नैयायिकाः प्रत्यक्षानुमानोपमानागमाख्यानि, प्रत्यक्षानुमानशाब्दोपमानार्थापत्त्यभावा इति जैमिनीयाः / एतदाह भा०-अनुमानोपमानागमार्थापत्तिसम्भवाभावान्यपि प्रमाणानि इति केचित् मन्यन्ते / तत् कथमेतदिति ? / अत्रोच्यते टी०-अनुमानोपमानेत्यादि / तत्रानुमानं तावत् पक्षधर्मान्वयव्यतिरेकजनितं अनुमानादीनां ज्ञानम्, प्रसिद्धसाधयात् साध्यसाधनमुपमान, यथा गौस्तथा व्याख्या गवयः / " प्रसिद्धेन हि साधाव, साध्यसाधनमिष्यते / उपमानं परैस्तच्च, यथा गौर्गवयस्तथा // " तथा आप्तोपदेश आगमस्तदनुसारि ज्ञानमागम उच्यते प्रमाणं वर्णपदवाक्यात्मकः / तथाापत्तिद्विधा शब्दार्थापत्तिार्थापत्तिश्चेति। तत्र शब्दार्थापत्तिर्देवदत्तो दिवा न भुङ्क्तेऽ. नुपहतेन्द्रियशरीरश्चेति, रात्रौ तर्हि भुङ्क्ते इति / तथा अर्थार्थापत्तिरपि नीलं पश्यतो यदिन्द्रियानुमानं समस्ति तत् किमपीन्द्रियं येनैतनीलं परिच्छिन्नमिति / सम्भवोऽपि प्रमाणंप्रस्थे कुडवः समस्ति, अस्मिन् प्रस्थाख्ये आधारे कुडव आधेयः सम्भवतीति एप सम्भवः / तथाऽभावोऽपि प्रमाणाभावविषयः, यत्र विषये प्रत्यक्षादिप्रमाणानामप्रवृत्तिरसावभावस्तद्विपयमपि ज्ञानमभाव इति व्यपदिश्यते / अत एव तान्यनुमानादीनि केचिदाचार्याः प्रमाणा