SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ 360 तत्त्वार्थाधिगमस्त्रम् [ अध्यायः 5 त्वेकस्य गुणभूतत्वमन्यस्य प्रधानत्वमेवं चेत, इष्यते एव द्रव्यपर्याययोरन्यतरस्य गुणप्रधानभावः, त्वयाऽप्येकस्मिन् काले द्रव्ये च धर्माधर्माववश्यमभ्युपगन्तव्यौ, अन्यथा प्रतिवन्ध्यप्रतिबन्धकभाव एव न स्यात्, अतो वामात्रमेव विरोध इति / न च सामान्यादत्यन्तभिन्ना व्यक्तिरिति जैनसिद्धान्तः / एतेन नादवृद्धिः परेति प्रत्युक्तम्, नादो महान् मध्योऽल्पश्च, न शब्द इति शबरेणोक्तम्, तदसत्, शब्दस्यैव ताथाविध्यात्, तीवमन्दमध्यप्रयत्नभेदान्महान्छ ब्दोऽल्पो मध्यश्चेति सामानाधिकरण्येन शब्द एव व्यपदिश्यते, न च अन्यमतपूर्व शब्दव्यतिरिक्तं श्रोत्रस्य ग्राह्यमस्ति, शब्दधर्म एव नाद इति चेत, स शब्दस्वा - ततोऽन्योऽनन्य इति वाच्यम्, उभयथा च दोष इति / येऽपि प्रधानपरिणाममुशन्ति शब्दं तैरपि सामान्य विशेषवान् मृतश्चाभ्युपेयः, अन्यथा तत्कृतव्यवहारो विच्छियेत, येऽपि सङ्गिरन्ते श्रोत्रेन्द्रियविषयमुपात्तानुपात्तोभयमहाभूतहेतुकं शब्दम्, तैरपि न विशेषमात्रमुखातसामान्यमूलमवलम्बनीयम्, अयोनयो हि विशेषाः खपुष्पसौरभवदनासादितात्मलामा एव स्युः, एकान्तक्षणिकता च दृष्टान्ताभावादेवातिदुर्लभेति ! तस्मादवस्थितमेतत्-पुद्गलद्रव्यमेव प्रतिविशिष्टपरिणामानुगृहीतं शब्द इति / स द्विधा विस्रसाप्रयोगभेदात्, तर वससिको जलधरध्वानादिः, प्रयोगजो जीवव्यापारनिष्पन्नः पोढा अमदा ततादिः, ततो मृदङ्गपटहादिसमुद्भवः, विततो वीणात्रिसरिकादितम्त्रीप्रभवः, कांस्यभाजनकाष्ठशलाकादिजनितो धनः, वेणुकम्बुवंशविवरायुद्भवः शुषिरः, क्रकचकाष्ठादिसङ्घर्षप्रसूतः सङ्घर्षः, व्यक्तवाग्भिर्वर्णपदवाक्याकारेण भाष्यत इति भाषा, प्रतिनियतसंस्थानान्यक्षराणि वर्णाः, वर्णसमुदायः पदम्, पदसमुदायो वाक्यमर्थविशेषप्रतिपत्तिहेतुः, इतिशब्दः शब्दभेदेयत्तापरिसमाप्तिप्रदर्शनपरः // भा०-बन्धस्त्रिविधः-प्रयोगबन्धो विस्त्रसाबन्धोमिश्रबन्ध बन्धस्य त्रैविध्यम् इति / स्निग्धरूक्षत्वाद् भवतीति वक्ष्यते ( अ०५, सू० 32 ) // टी--बन्धस्त्रिविध इत्यादि / बन्धनं बन्धः-परस्पराश्लेषलक्षणः, प्रयोगो-जीवच्यापारस्तेन घटितो बन्धः प्रायोगिकः-औदारिकादिशरीरजतुकाष्ठादिविषयः, विस्रसा-स्वभावः प्रयोगनिरपेक्षो विस्रसाबन्धः, स द्विधा आदिमदनादिमझेदात, तत्रादिमान विद्युदल्काजलधरामीन्द्रधनुःप्रभृतिविषमगुणविशेषपरिणतपरमाणुप्रभवः स्कन्धपरिणामः, अनादिरपि धर्माधर्माकाशविषयः, प्रयोगविस्रसाभ्यां जीवप्रयोगसहचरिताचेतनद्रव्यपरिणतिलक्षणः स्तम्भकुम्भादिमिश्रः, अत्र चोभयमपि प्राधान्येन विवक्षितम्, सामान्यलक्षणं च बन्धस्य स्निग्धरूक्षस्वादित्युपरि व्याख्यास्यते, एतच्च बन्धलक्षणमनादों वैससिके न सम्भवत्यन्यत्र तु सङ्ग- . च्छते, 'सामान्योक्तो विधिर्विशेषेऽवस्थानं लभत ' इति वचनात् / / १पोदलिकबन्धस्यैव लक्ष्यत्वात् नोपयोगोऽस्य, बन्धसामान्याधिकारे एव विनसाबन्धस्यानादितया यामः /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy