________________ सूत्र 45] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 205 उज्यने-तान्येव सोपभोगानि समस्तोपभोगकारणत्वात् कालान्तरावस्थानाच्च, इदं तु निरुपभोगमन्त्यम् // ____भा०-अन्त्यमिति सूत्रक्रमप्रामाण्यात् कार्मणमाह / ततू निरुपभोगम् / न सुखदुःखे तेनोपभुज्यते, न तेन कर्म बध्यते, न वेद्यते, नापि निर्जीयत इत्यर्थः / शेषाणि तु सोपभोगानि / यस्मात् सुखदुःखे तैरुपभुज्यते कर्म बध्यते वेद्यते निर्जीयते च, तस्मात् सोपभोगानीति // 45 // टी-अन्त्यमिति सूत्रक्रमप्रामाण्यादिति। अन्ते भवमन्त्यम् , कस्यान्त्यमिति चेद अत आह-मूत्रक्रमप्रामाण्यादौदारिकादिशरीराणां चतुर्णा पर्यन्तवर्ति कार्मणमाह, सूत्रकारादविभक्तोऽपि हि भाष्यकारो विभागमादर्शयति, व्युच्छित्तिनयसमाश्रयणात् / औदारिकादिशरीरचतुष्टयपर्यन्तवति तत् निरुपभोगं निरस्तोपभोगं निरुपभोगम्, उपभोगो वक्ष्यमाणः प्रतिविशिष्ट एव, तदभावानिरुपभोगमुच्यते / कः पुनरसावुपभोगो यमधिकृत्योच्यते निरुपभोगम् ? अत आह न सुखदुःखे तेनोपभुज्यते इति / मनोज्ञामनोज्ञशब्दादि विषयसम्पर्कजं च मुखं दुःखं न तेनोपभुज्येते, निवृत्युपकरणेन्द्रियाभावाल्लब्धीन्द्रियसन्निधौ सत्यपि, उमयेऽपि हि शब्दादयो विषया निवृत्त्युपकरणेन्द्रियविरहविलेन कार्मणेन नोपभोक्तुं शक्यन्त इति निरुपभोगम्, असङ्ग्यातसमयनिवृत्तश्च छमस्थस्य सुखदुःखोपभोगः, विग्रहगतेश्व चतुःसमयपरत्वात् सोऽयुक्तः, तथा न तेन कर्म बध्यते, न वेद्यते, नापि निर्जीयते इत्यर्थः / उपभोगविशेषनिषेधप्रदर्शनार्थमिदमातन्यते, तेन कार्मणेन वपुषा न खलु कर्म बटुं पार्यते, अभिव्यक्तकारणाभावात, कारणैर्हि कर्ता व्यापारमातनोति पाणिपादश्रोत्रादिभिः तद्यथा-औदारिकशरीरी मनभिसन्धानपूर्वकमाकृष्याकान्तं शिलीमुखं मृगवधाय क्षिपति, असत्प्रलापादि बहु भाषते, अदत्तद्रविणमादत्ते, पाण्यादिना योपितमभिगच्छति, सकलकायव्यापारेण परिगृह्णाति मनोवाकायव्यापारैः, एवमेष कर्मबन्धकरणकलापस्तदा न समस्त्यभिव्यक्तस्वरूपः कार्मणे, तद्धि पाणिपादमुखलोचनाद्यवयव विनिमुक्तं मनोवाग्व्यापाररहितं च, अतो न हिंसाद्यास्रवकृतं तेन कर्म बध्यते / तथा तेन न वेद्यते, न निर्जीयते वा, एवंविधास्रवजनितकर्म तेन शरीरकेण नानुभूयते,तस्य छुपभोगो नारकादिगतिषु नान्तर्गतौ अत्यल्पकालत्वात् औदारिकवैक्रियाभावाच्च, अनुभूयमानमेवेह निर्जीयते नीरसतामापाद्यमानं परिशटदात्मप्रदेशेभ्यः प्रत्यस्तस्नेहलेशमामुक्तरसकुसुम्भकवनिर्जीर्णमुच्यते, न चैतत् तस्यामवस्थायां मनोव्यापाराभावात् प्रतिपत्तुमुत्सहन्तेऽतिकोविदाः, तथा कार्मणं हि कर्मसङ्घातः स चोपभोग्यो भवति, नोपभोजकः / औदारिकाद्यप्येवमेवेति चेत्, न, बाह्येन्द्रियपक्षतामङ्गीकृत्योपभोक्तृत्वमौपचारिक नत्यन्तप्रसिद्धम्, अतोऽभिव्यक्तसुखदुःखकानुवन्धानुभवनिर्जरालक्षणमुपभोगमाधाय 1 ' णत्वात्राऽन्तराव' इति क-ख-पाठः / 2 'पर्यायनयसमाश्रयणात्' इति ख-टी-पाठः। 3 'प्रत्यस्तनेहळेशमामुक्तरस' इति क-ख-पाठः,'पादलेशानामुक्त' इति ग-पाठः /