________________ नम् 270 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 प्राणी जघन्येनोत्कर्षेण वेति / कायस्थितिर्मनुष्यो भूत्वा तिर्यग्योनिर्वा मरणमनुभूय पुनर्मनुष्येप्वेव मनुष्यः तिर्यक्ष्वेव तिर्यग्योनि:रन्तर्येण कतिकृत्वः समुत्पद्यते / तत्र मनुष्याणां यथोते त्रिपल्योपमान्तमुहूर्ते परापरे भवस्थिती, कायस्थितिः सप्ताष्टौ वा भवग्रहणानि प्रकर्षतः सप्ताष्टौ वेति नैरन्तर्येण मानुषः स्यात्, कथं पुनरिदं भाव्यते-पूर्वकोट्यायुमेनुष्यो मृत्वा पुनः पुनः पूर्वकोट्यायुरेव मनुष्यः सप्तकृत्वः प्रादुरस्तीति, अष्टमभवे तु देवकुरूत्तरकुरुषु उत्पद्यते पश्चाद् देवलोकं गच्छति / तिर्यग्योनिाजनां चेत्यादि / उक्त भवस्थिती सङ्ग्रहतः। भा०-व्यासतस्तु शुद्धपृथिवीकायस्यपरा द्वादश वर्षसहस्राणि,खरपृथिवीका / यस्य द्वाविंशतिः,अपकायस्य सप्त,वायुकायस्य त्रीणि,तेजःकाय. पृथ्व्यादानामायुमा स्य त्रीणि रात्रिंदिनानि,वनस्पतिकायस्य दश वर्षेसहस्राणि। ए. _षांकायस्थितिरसङख्येयाःअवसर्पिण्युत्सर्पिण्यः वनस्पतिकायस्यानन्ताः। द्वीन्द्रियाणां भवस्थिति दश वर्षाणि / त्रीन्द्रियाणामेकोनपश्चाशदा. त्रिंदिनानि / चतुरिन्द्रियाणांषण्मासाः / एषां कायस्थितिःसङ्ख्येयानि वर्षसहस्राणि / पञ्चेन्द्रियतिर्यग्योनिजाः पञ्चविधाः। तद्यथा-मत्स्याः उरगाः परिसाःपक्षिणश्चतुष्पदा इति। तत्र मत्स्यानामुरगाणां भुजगानां च पूर्वकोट्येव / पक्षिणांपल्योपमासङ्ख्येयभागः। चतुष्पदानां त्रीणि पल्योपमानि गर्भजानां स्थितिः। तत्र म त्स्यानां भवस्थितिः पूर्वकोटिस्त्रिपञ्चाशदुरगाणां द्विचत्वारिंशत् भुजगानां दि. सप्ततिः पक्षिणां स्थलचराणां चतुरशीतिवर्षसहस्राणि सम्मच्छिमानां भवस्थितिः। एषां कायस्थितिः सप्ताष्टौ भवग्रहणानि / सर्वेषां मनुष्यतियग्योनिजानां कायस्थिति रप्यपरा अन्तर्मुहतैवेति // 18 // टी०-व्यासतस्तु शुद्धपृथिव्या द्वादश वर्षसहस्राणि खरधरणेाविंशतिरित्यवमादि सुज्ञानम्, एषां पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां कायस्थितिरसङ्ख्येया अवसर्पिण्युत्सर्पिण्यः साधारणवनस्पतेरनन्ता अवसर्पिण्युत्सर्पिण्यः / द्वीन्द्रियाणामित्यादि सुज्ञाना भवस्थितिः / एषां कायस्थितिः सङ्ख्येयानि वर्षसहस्राणि पश्चेन्द्रियेत्यादि सुज्ञानम् / सप्ताष्टौ वा भवग्रहणानि मनुष्यवद् भावनीयानि / सर्वेषामित्यादि मनुष्यतिरवामपरा कायस्थितिर्जघन्याऽन्तमुहूर्तप्रमाणैव भवतीति // 18 // ग्रन्थाग्रमङ्कतः 8212 (1) // इति श्रीतत्त्वार्थसूत्रेऽर्हत्प्रवचने भाष्यानुसारिण्यां टीकायां लोकप्रज्ञप्ति - ___ माध्यायस्तृतीयः॥३॥ // इति तृतीयोध्यायः॥