________________ से 17-18 1 स्वोपज्ञमाष्य-टीकालङ्कृतम् 269 -- अथैते मनुष्या आर्यादिभेदवर्तिनः कियन्तं कालमनुपाल्यायुःप्राणान् विजहतीत्याह-- सूत्रम्-नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते // 3-17 // भा०-नरो नरा मनुष्या मानुषा इत्यनान्तरम् / मनुष्याणां परा स्थितिस्त्रीणि पल्योपमानि, अपरा अन्तर्मुहूर्तेति॥१७॥ टी-नरो नरा इत्यादि भाष्यम् / पर्यायाख्यानेन व्याख्यातमेतत् नृसब्दस्य, परा. उत्कृष्टा स्थितिरायुषोऽवस्थानं जीवितकालः त्रीणि पल्योपमानि मनुष्याणाम्, एतानि चाद्धापल्योपमेन जीवानामाग्रंषि गण्यन्ते, अपरा अन्तर्मुहर्ता जघन्या स्थितिरायुषोऽन्तर्मुहूर्तपरिमाणा भवतीति // 17 // सूत्रम्-तिर्यग्योनीनां च // 3-18 // भा०—तिर्यग्योनीनां च परापरे स्थिती त्रिपल्योपमामामा न्तर्मुहर्ते भवतः यथासङ्ख्यमेव / पृथकरणं यथासङ्ख्यदोषविनिवृत्त्यर्थम्, इतरथा यद्येकमेव सूत्रमभविष्यत् / उभयत्र चोभे यथासंख्यं स्यातामिति / -टी-तिर्यग्योनीनामप्यत्रैवोच्यते स्थितिरायुपः समानप्रक्रमत्वात् / तिर्यग्योनीनां चेत्यादि भाष्यम् / तिर्यग्योनयः-पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाः तेषामपि परापरे स्थिती जीवितव्यस्य त्रिपल्योपमान्तर्मुहूर्ते भवतः यथासङ्ख्यम् उत्कृष्टजघन्ये स्थिती बोद्धव्ये, पृथग्योगकरणं यथासङ्ख्यदोषविनिवृत्त्यर्थमित्यादि। नृतिर्यग्योनीनां स्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते इत्येवं न्यासे सति त्रिपल्योपमा परा स्थितिर्मनुष्याणाम्, अपरा स्थितिस्तिरश्चामन्तर्मुहूर्तप्रमाणेति एवं स्यात् सूत्रार्थ इत्याचार्याभिप्रायः। न खल्वेवमपि न्यस्यमाने कश्चिद् दोपः, स्थिती परापरे इति समुदितमेवेदं समासपदत्वादभिसमन्त्स्यते, नृणां स्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते तिरश्चां च परापरे त्रिपल्योपमान्तमुहूर्ते, व्याख्यानतो वा विच्छेदः आर्षानुवादित्वाद वाऽस्य सूत्रप्रबन्धस्येति / _भा०-द्विविधा चैषां मनुष्यतिर्यग्योनिजानां स्थितिः-भवस्थितिः कायस्थितिश्च / मनुष्याणां यथोक्ते त्रिपल्योपमान्तर्मुहूर्ते परापरे भवस्थिती / कायस्थितिस्तु परा सप्ताष्टौ वा भवग्रहणानीति / तियेग्योनिजानां च यथोक्ते समासतः परापरे भवस्थिती। टी-द्विविधा चैषामित्यादि भाष्यम् / नृतिरश्चां द्विप्रकारा स्थिति:-भवस्थितिः कायस्थितिश्च / तत्रभवस्थितिमनुष्यजन्म लम्वा तिर्यग्जन्म वा कियन्तं कालं जीवति