________________ // श्रीपरमात्मने नमः // घात: चतुर्थोऽध्यायः 4 भा०-अत्राह-उक्तं भवता 'भवप्रत्ययोऽवधि रकदेवानाम्' (अ० 1, सू० 22) इति // तथौदयिकेषु भावेषु देवगतिरिति (अ० 2, अध्यायोपोद"दू: सू०६)॥'केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य' (अ० 6, सू०१४ ) // सरागसंयमादयो देवस्य ( अ०६, सू० 20) // 'मारकसम्मछिनो नपुंसकानि, न देवाः' (अ० 2, सू० 50-51 ) / तत्र के देवाः कतिविधा वेति / अत्रोच्यते___टी०-अत्राह-उक्तं भवतेत्यादि सम्बन्धग्रन्थः / उक्तमिदं प्रथमे (सू० 22 ) भवप्रत्ययोऽवधि रकदेवानामिति / तथा द्वितीये (सू०६) औदयिकभावविचारप्रस्तावे देवगतिरित्युक्तम् / तथा षष्ठे(सू०१४)वक्ष्यति- केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोइस्यास्त्रवो भवति, तथा तत्रैव सरांगसंयमसंयमासंयमाकामनिर्जरा[विरत] बालतपांसि (च) देवस्य (अ० 6, सू०२०) आयुष आस्रवो भवति, तथा वितीये (सू० 50-51) नारकसम्मछिनो नपुंसकानि, न देवा इति, एवमनेकसूत्रोपात्तदेवशब्दश्रवणाद् आहिततद्विषयजिज्ञासः प्रश्नयति-तत्र के देवाः कतिविधा वेति / तेषु-सूत्रस्थानेषु, के देवाः प्रतिपत्तज्याः-किस्वरूपाः ? क्रीडाद्यर्थबहुत्वादिति, निरूपितस्वभावाश्च ते किमेकरूपा उत भेदभाज इति द्वितीयः प्रश्नः प्रावृतत्, एवं प्रश्नद्वयोपन्यासानन्तरं सरिराह-अत्रोच्यते-प्रश्नव्येऽप्यनुरूपं प्रतिवचनमिति, प्रश्नद्वयप्रतिवचनदिदित्सया सूत्रमुपन्यस्यति-देवाश्चतुर्निकाया इति / अथवा उक्तं लोकद्वयविधानं भूद्वीपसागरविन्यासेन / अधुनोलोकाभिधानावसरस्तदभिधित्सया सूत्रप्रणयनम् / सूत्रम्-देवाश्चतुर्निकायाः // 4-1 // टी०- नन्वधोलोकतिर्यग्लोकयोरपि देवाः सन्ति, तत् कथमूर्ध्वलोक एवामिधास्यते चतुर्थाध्याय इति 1 / उच्यते-वैमानिकानधिकृत्येदमुच्यते ऊर्ध्वलोकावसर इति, प्रधानत्वात्, अन्यथा भवनपतयोऽधोलोके, व्यन्तरज्योतिष्कास्तिर्यग्लोक इति / द. भा०-देवाश्चतुर्निकाया भवन्ति / तान पुरस्ताद वक्ष्यामः॥१॥ प्रतिपादनम्