SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ त्पत्त्यथेः 272 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 टी०-देवाश्चतुर्निकाया इत्यादि भाष्यम् / दीव्यन्तीति देवाः, स्वच्छन्दचारित्वात्, _____ अनवरतक्रीडासक्तचेतसः क्षुत्पिपासादिभिर्नात्यन्तमाघाता इति भावार्थः। देवशब्दस्य व्यु- द्योतन्ते वा भास्वरशरीरत्वादस्थिमांसामुकप्रवन्धरहितत्वात् सवाङ्गोपाङ्ग सुन्दरत्वाच देवाः / अथवा विना विद्यामन्त्राजनादिभिः पूर्वकृततपोऽ. पेक्षजन्मलाभसमनन्तरमेवाकाशगतिभाजो देवाः, सा ह्यतिशयवती गतिस्तेपामनालम्बाकाशचारिणाम, यथोक्तमागमे (भग०सू०५८४)-केमहालएणं भंते ! लोए पन्नत्ते ? गोयमा! अयं चणं जम्बुद्दीवे दीवे सव्वदीवसमुदाणं मज्झे खुड्डुलए पण्णत्ते / तेणं कालेणं तेणं समएणं छद्देवा महिड्यिा जंबुद्दीवे दीवे मन्दरपव्वए मंदरचूलियं सव्वओ समन्ता संपरिक्खिवित्तौणं चिढेजा, अहे णं चत्तारिदिसाकुमारीमहयरियाओ चत्तारि बलिपिंडे गहाय जंबुद्दीवस्स दीवस्स उसुवि दारेसु बहियाभिमुहीओ ठिच्चा ते चत्तारि बलिपिंडे जमगसमगं बहियाभिमुहे पवाहेज। पभू णं गोयमा ! ततो एगमेगे देवे ते चत्तारिवि बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए / ते णं गोयमा ! उकिटाए जाव देवगतीए एगे पुरत्याभिमुहे पयाते, एवं छस्सुवि दिसासु पयाता / तेणं कालेणं तेणं समएणं वाससहस्साउए दारए पयाते, तए णं तस्स दारगस्स अम्मापियरो पहीणा भवन्ति, नो चेव णं ते देवा लोयंत संपाउणंति, तए णं तस्स दारगस्स आउए पहीणे भवति, नो चेव णं ते देवा लोयंत संपाउणंति, तए णं तस्स दारगस्स अहिमिंजे पहीणा भवन्ति, नो चेव णं ते लोअंत संपाउणंति, तए ण तस्स दारगस्स सत्तमेऽवि कुलवंसे पहीणे भवति, नो चेव ण ते लोयंत संपाउणंति, तते णं तस्स दारगस्स नामगोत्तेऽवि पहीणे भवति, नो चेव णं संपाउणंति, तेसि णं भंते! देवाणं किं गए बहुए अगए वहुए ? गोयमा ! गए बहुए, नो अगए बहुए, गतातो से अगते असंखिज्जतिभागे, अगतातोसे गए असढेजगुणे, एवं महालए गोयमा! लोए पण्णत्ते"।तथा विमानमहत्त्वं प्रज्ञापना १कियन्महान् भदन्त ! लोकः प्रज्ञप्तः ? गौतम | अयं च जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां मध्ये क्षुल्लकः प्रज्ञप्तः / तस्मिन् काले तस्मिन् समये षट् देवा महर्द्धिका जम्बूद्वीपे द्वीपे मन्दरपर्वते मन्दरचूलिकां सर्वतः समन्तात् संपरिक्षिप्य तिष्ठेयुः, अथ चतस्रः दिक्कुमारीमहतरिकाः चतुरो बलिपिण्डान् गहीत्वा जम्बूद्वीपस्य द्वीपस्य चतुर्वपि द्वारेषु बहिरभिमुख्यः स्थित्वा तान् चतुरो बलिपिण्डान् युगपद् बहिरभिमुखान् प्रवाहयेयुः। प्रभुर्गौतम! ततः एकैकः देवः तान् चतुरोऽपि बलिपिण्डान् धरणीतलमसंप्राप्तान् क्षिप्रमेव प्रतिसंहर्तुम् / ते गौतम ! उत्कृष्टया यावद् देवगत्या एको देवः पूर्वाभिमुखः प्रयातः, एवं षट्स्वपि दिक्षु प्रयाताः, तस्मिन् काले तस्मिन् समये वर्षसहस्रायुष्को दारकः प्रजातः। ततः तस्य दारकस्य मातापितरौ प्रहीणौ भवतः, नैव ते देवा लोकान्तं संप्राप्नुवन्ति, ततः तस्य दारकस्य आयुः प्रहीणं भवति, नैव ते देवा लोकान्तं संप्राप्नुवन्ति, ततः तस्य दारकस्य अस्थिमज्जाः प्रहीणा भवन्ति, नैव ते ( देवा) लोकान्तं संप्राप्नुवन्ति, ततः तस्य दारकस्य सप्तमोऽपि कुलवंशः प्रहीणो भवति, नैव ते लोकान्तं संप्राप्वन्ति, ततः तस्य दारकस्य नामगोत्रमपि प्रहीणं भवति, नैव संप्राप्नुवन्ति, तेषां भदन्त / देवानां किं गतं बहुकं अगतं बहुकं ! गौतम ! गतं बहुकं, न अगतं बहुकं, गतात् तद् अगतं असंख्येयभागे, अगतात् तद् गतं असंख्येयगुणं, एवंमहान् गौतम ! लोकः प्रज्ञप्तः / २'बलदेवा' इति क-पाठः। 3 वेत्ताणं ' इति क-पाठः /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy