________________ 182 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 2 सूत्रम्-विग्रहवती च संसारिणः प्राक् चतुर्थ्यः // 2-29 // टी०-विग्रहवती-वक्रा चशब्दादविग्रहा वाऽनन्तरसूत्रनिर्दिष्टा गतिर्भवति,संसारिग्रहणानुवृत्तौ पुनः संसारिग्रहणं सिद्धग्रहणादपास्तस्य प्राक्तनसंसारिग्रहणस्य पुनः प्रत्युज्जीवनाय अर्थवशाच्च विभक्तिविपरिणामः प्राक चतुभ्य इत्यन्तर्गतिकालप्रकर्षावधारणार्थः, 'एकसमयोऽविग्रहः' (अ० 2, सू० 30 ) इति वक्ष्यमाणत्वात् / चतुर्यो विग्रहेभ्य आरात सविग्रहा भवति, त्रिविग्रहा प्रकर्षत इति, प्राकशब्दस्य मर्यादाभिधायित्वात् // ___अधुना भाष्यानुसरणं क्रियते भा०-जात्यन्तरसङ्कान्तौ संसारिणो जीवस्य विग्रहवती चाविग्रहा च गतिर्भवतीति, उपपातक्षेत्रवशात् तिर्यगूर्ध्वमधश्च, प्राक् चतुर्थ्य इति येषां विग्रहवती तेषां विग्रहाः प्राक् चतुभ्यो भवन्ति, अविग्रहा विग्रहगतिस. एकविग्रहा द्विविग्रहा त्रिविग्रहा इत्येताश्चतुस्समयपराश्चतुङ्ख्याः विधा गतयो भवन्ति, परतो न सम्भवन्ति, प्रतिघाताभावाद् विग्रहनिमित्ताभावाच / विग्रहो वक्रितम्, विग्रहोऽवग्रहः श्रेण्यन्तर सान्तिरित्यनर्थान्तरम् / पुद्गलानामप्येवमेव / शरीरिणां च जीवानां विग्रहवती चाविग्रहवती च प्रयोगपरिणामवशात् / न तु तत्र विग्रहनियम इति // 29 // टी-जात्यन्तरसङ्क्रान्तावित्यादि / जातिरेकेन्द्रियादिभेदात् पञ्चधा, जातेरन्या जातिर्जात्यन्तरं तस्मिन् सङ्क्रान्तिः-गमनं जात्यन्तरसङ्क्रान्तिस्तस्यां आत्यन्तरसङ्क्रान्तौ सत्यामिति / अथ यदा स्वजातादेवोत्पद्यते तदा कथम् ? तदापि ह्येवमेव गतिर्वक्तव्या, जात्यन्तरग्रहणं तु तदा प्रदर्शनमात्रकारि व्याख्येयम् / अथवा जननं-जन्म जातिशब्देनोच्यते, जन्मनो जन्मान्तरावाप्तिर्जात्यन्तरसङ्क्रान्तिरिति न कश्चिदत्र दोषः / संसारः-कर्म तदमिसम्बन्धात संसारिणो जीवस्येति जीवनधर्मभाजः, अजुगतौ पूर्वकमेवाऽऽयुर्भवति यावदुपपातदेशं प्राप्नोति, कुटिलगतौ यावद् वक्रं तावत् पूर्वकम्, तत्परतो भविष्यजन्मविषयमायुरुदेतीत्येवंविधार्थज्ञापनाय जीवस्येत्यवोचत् / समुच्चयार्थ दर्शयति-वक्रा चावका च उभयी - गतिः / किं पुनः कारणमत्र येन कदाचिद वक्रा कदाचिदवक्रेति / विग्रहे हेतुः अत आह-उपपातक्षेत्रवशात् उपपातक्षेत्रं यत्र जन्म प्रतिपत्स्यते तस्य वशः-आनुलोम्यमनुकूलता उपपातक्षेत्रवशस्तस्मादुपपातक्षेत्रवशात् कारणात्। तिर्यगूर्वमधश्च प्राक चतुर्थ्य इति, दिक्षु विदिक्षु च व्यावहारिकीषु स म्रियमाणो यावत्यामाकाशश्रेणाववगाढस्तावत्प्रमाणां श्रेणिममुश्चदूर्ध्वमधश्च प्राक् चतुभ्यो विग्रहेभ्यः सविग्रहया ग़त्योपपद्यते, न चायं नियमः प्रतिपत्तव्योऽन्तर्गत्याऽवश्यं विग्रहवत्या भवितव्यम् , किन्तु येषां विग्रहवती तेषां प्राक चतुर्यो विग्रहा भवति, येषां जीवानामुपपातक्षेत्रवशाद् विग्रहवती गतिर्भवति तेषां विग्रहत्रययुक्ता प्रकर्षतो द्रष्टव्या / अमुमेवातिक्रान्तमशेष भाष्यार्थ व्यक्तिमा