________________ सूत्र 28 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् ____ अधुना भाष्यमनुगम्यते: भा०–सर्वा गतिर्जीवानां पुद्गलानां चाकाशप्रदेशानुश्रेणिर्भवति, विश्रेणिर्न भवतीति गतिनियम इति // 27 // ___टी.-सर्वा गतिरित्यादि / सर्वेति ऊर्ध्वमधस्तिर्यग्वा देशान्तरप्राप्तिः, जीवानांजीवनयुजां संसरणधर्माणामित्यर्थः, पुद्गलानामिति, पूरणाद् गलनाच्च पुद्गलाः-निरुक्तप्राभृतानुसारेण उपचयापचयभाजः, तेषां च, समुचितौ चशब्दः / कथं पुनरत्र पुद्गलग्रहण मतर्कितमेव सहसा विहायसोऽपतदिति ? / उच्यते-जीवाधिकारानुवृत्ती अनुश्रेणी पद्गलप्रणा गतिनियमविवक्षायामनुपात्तमपि सूत्रे लाघवैषिणा भाष्यकारेणोपात्त मेकप्रयत्नसाध्यत्वात् , अन्यथा तु गौरवं जायते, अतश्चेदमवश्यमर्थतो वक्तव्यम्-पुद्गलानां चेति, उत्तरत्र सूत्रे जीवग्रहणाद् , अन्यथा जीवाधिकारानुवृत्तौ जीवग्रहअस्य न किंचित् प्रयोजनमुपलभ्यते, तस्मात् पश्यत्ययमाचार्यो जीवानां पुद्गलानां च गतिनियम अनन्तरसूत्रेऽतः पुद्गलव्यवच्छित्तये जीवग्रहणमिति / आकाशप्रदेशानुश्रेणिभवति / जीवपुद्गलावगाहलक्षणमाकाशं तस्य प्रदेशाः-परमाणवोऽमूर्तास्तेपां पति:पदीर्घा श्रेणिरसंख्यातप्रदेशा, पुद्गलगमने तु सङ्ख्यातप्रदेशाऽपि, तामेवंविधां श्रेणिमनुपत्य गमनमुपजायते, आकाशप्रदेशानां या श्रेणिस्तामनु जायते गतिर्भवत्ययमर्थः समासस्तु, कथमेतचिन्त्यम् आकाशग्रहणं, धर्मादिद्रव्य निवृत्त्यर्थम्, तदेव ह्यवगाहदानेन व्याप्रियते, न शेपमिति / उक्तलक्षणायाः श्रेणेविंगता या गतिः सा विश्रेणिर्जीवानाम् , पुद्गलानां तु स्वभावाद्, विश्रेणिर्न भवतीति गतिर्नियम्यते / पूर्वापरायता वियत्प्रदेशश्रेणयो दक्षिणो रायताश्चापराः तथा चोर्ध्वमधश्च धर्माधर्मद्रव्यद्वयावधिका यास्तास्वेव गतिसद्भावात् ता एव विमिद्य न कदाचिदपि प्रयान्तीति // 27 // अत्राह-सैवस्वभावा गतिः किमृज्वेव गत्वोपरमति, अथ कृत्वापि वक्रं पुनरुपजायते ? / उच्यते-पुद्गलानामनियमः, सिद्धयतस्त्वेकान्तेनैवाविग्रहेत्यत आह सूत्रम्-अविग्रहा जीवस्य // 2-28 // सिध्यमानस्य गतिनियमः समय भा०—सिद्धयमानगतिर्जीवस्य नियतमविग्रहा भवति // 28 // .टी०-एतावद् भाष्यमस्य सूत्रस्य / सेधनशक्तियुक्तः सिद्धयमानः सेधनशीलो वा तस्य गतिर्गमनं पूर्वप्रयोगादिहेतुचतुष्टयजनितम् / जीवस्येति ग्रहणात् पूर्वयोगैर्जीवाः पुद्गलाश्चेति शापितं भवति, सिद्धयमानस्येति सामर्थ्यलब्धमुदचीचरत् मूरिरुत्तरयोगे संसारिग्रहणात् , नियतं सर्वकालमेव सिद्धयताम् , अविग्रहा-ऋज्वी गतिर्भवतीति वेदितव्यमिति // 28 // आह-अन्यस्य सिद्धयमानजीवव्यतिरिक्तस्य कथमिति ? / उच्यते१'सूत्रोक्तः' इति क-ख-पाठः /