SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 10 तत्त्वार्थाधिगमसूत्रम् [ श्रीदेवगुप्तनानामपि प्रमादिनां प्रतिमादिदर्शनेन तद्वन्दनगुणानुस्मरणात् संवेगादि भवतीति साधूक्तं तत्पूजनं न्याय्यमिति // 8 // - गृहीतमेतत्, यत् पुनरुक्तं कृतार्थोऽप्युपदिशतीति तद्विरुद्धं, कृतार्थश्योपदिशति चेति, नहि कश्चिनिरभिवाञ्छः श्रममाद्रियमाणो दृष्ट इति चोदितः कारणमाह तीर्थप्रवर्तनफलं, यत् प्रोक्तं कर्म तीर्थकरनाम / तस्योदयात् कृतार्थो-ऽप्यहस्तीर्थ प्रवर्तयति // 9 // आर्या व्या०–तीर्थप्रवर्तनेत्यादि / भवसमुद्रं तरन्ति तेन तद्वाऽधिगम्येति तीर्थ, प्रवचनमित्यर्थः, तस्य प्रवर्तनं प्रणयनं, तदस्य कर्मणः फलम्, उपभोगो विपाकः प्रयोजनमिति तीर्थप्रवर्तनफलं, यत् प्रोक्तं उपदिष्टं कर्म, कोक्तं, प्रवचने, तत्प्रामाण्याञ्च शास्त्रे (अ० 6,, सू०२३) वक्ष्यते दर्शनविशुद्धयादिहेतुकं कर्माष्टके / कतरत् पुनस्तदित्याह-तीर्थकरनाम, तीर्थ करोतीति तीर्थकरः / 'कृओ हेत्वादिषु' (पाणिनिः अ० 3, पा० 2, सू० 20) इति हेतौ टः, तीर्थकरस्तीर्थहेतुरित्यर्थः, तस्य नाम, कारणे कार्योपचारः, तीर्थकरनाम कारणं तीर्थकरनाम, यसिन्नुपात्ते तीर्थकरोऽयमित्येवं व्यपदिश्यते, तस्योदयात् कृतार्थोऽप्यहस्तीर्थ प्रवर्तयति, यत् प्रोक्तं तस्योदयात तद्विपाकात् कृतार्थोऽप्यहस्तीर्थमित्येतदुक्तनिर्वचनं, प्रवतयति प्रणयति उपदिशति करोतीति, तस्य चैतदेव फलमित्युक्तं, न चोपभुजानः पुनरपि वेद्यते इत्याशङ्कितव्यम्, उक्तं हि षष्ठस्य निरनुबन्धं कर्मेति, किंपुनरित्थं दृष्टमित्याह न किश्चिदसाधारणोऽयमतिशयः तथापि निदर्शनमात्रमिदम् // 9 // तत्स्वाभाव्यादेव, प्रकाशयति भास्करो यथा लोकम् / तीर्थप्रवर्तनाय, प्रवर्तते तीर्थकर एवम् // 10 // आर्या व्या०–तत्स्वाभाव्यादेवेति / तदेव प्रकाशनं स्वभावस्तत्स्वभावः तद्भावस्तत्स्वाभाव्यं प्रकाशमयमित्यर्थः / तसादेव कारणात् प्रकाशयति अवभासयति, तन्मयत्वमेवास्य प्रकाशने कारणं नान्यदित्येवकारोऽवधारयति / भासः करोतीति भास्करः। यथा,धर्मप्रत्यासत्ती, लोकं भुवनम् / अत्र च भास्करग्रहणेन तद्विमानसम्प्रत्ययस्तदुपदेशस्तु प्रतीतत्वात् / तीर्थप्रवर्तनाय प्रवर्तते, तीर्थकर एव तीर्थमुक्तं तत्प्रवर्तनार्थ, प्रवर्तते प्रभवति तीर्थकर एवं, यथा भास्करः, उभयोरपि स्वभावानुगृहीता निराकाङ्क्षा तन्मात्रफला प्रवृत्तिरित्यर्थः, तदेवं सर्वतीर्थकरोपदेशप्रयोजने' व्याख्याते // 10 // ____ अधुना यस्य तीर्थे प्रवर्तमाने आचार्यः शास्त्रं प्रकर्तुमिच्छति तं जन्मनः प्रभृति कथयितुकाम इदमाह १'तवचनगुणा' इति क-पाठः। 2 'गृहीतं तत्' इति क-पाठः। 3 देशप्रयोजन व्याख्यातम्' इति क-पाठः।
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy