SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 11 रिकृतटीका ] सम्बन्धकारिकाः यः शुभकर्मासेवन-भावितभावो भवेष्वनेकेषु / जज्ञे ज्ञातेक्ष्वाकुषु-सिद्धार्थनरेन्द्रकुलदीपः // 11 // आर्या . व्या०-यः शुभकर्मेत्यादि। य इत्युद्देशोऽस्मादेकादश्यामार्यायां तस्मै इति निर्देशापेक्षः। शुभं कर्म भूतव्रत्यनुकम्पादानादिहेतुकं दर्शनविशुद्धयादिहेतुकं च वक्ष्यते (अ०६, सू० 13,23) / तस्यासेवनमभ्यासस्तेन भावितो भावोऽन्तरात्माऽस्येति शुभकर्मासेवनभावितभावः। कियत्कालं, भवेष्वनेकेषु, नैकस्मिन्न द्वयोर्बहुषु / आगमो ह्ययं कान्तारप्रनष्टसाधुमार्गाप्रदर्शनात् सम्यग्दर्शनप्रथमलामोवधमानस्वामिन इति / अन्ते किमित्याह-जज्ञे ज्ञातेत्यादि / जज्ञे जातवान्, क, ज्ञाता नाम क्षत्रियविशेषाः, तेषामपि विशेषसंज्ञा इक्ष्वाकवः, केषु, ज्ञातेष्विक्ष्वाकुषु, तेषामपि बहुत्वात् पितुरस्य विशेषणं सिद्धार्थः, स एव नरेन्द्रः, तस्य कुलं गृहं, तदुपचाराद सन्तानो वा, तस्मिन् दीपनं दीपः, प्रकाशोऽद्भुतं ललामेत्यर्थः / वर्धते हीदं कोशाधभिवृद्धया वर्धमान इत्यतों दीप इत्युक्तम् // 11 // . किंगुणो जातवानित्याहज्ञानः पूर्वाधिगतै-रप्रतिपतितैर्मतिश्रुताविधिभिः / त्रिभिरपि शुद्धैर्युक्तः, शैत्यद्युतिकान्तिभिरिवेन्दुः॥१२॥ आर्या ... व्या०--ज्ञानैरित्यादि / पूर्वमेवाधिगतान्यवाप्तानि पूर्वाधिगतानि ज्ञानानि, तैरप्रतिपतितैरनावृतैः / अप्रतिपतितग्रहणाच्च ज्ञापयति पूर्वतमभवेष्वपि शुभकर्मासेवनादवाप्तान्येवासन, प्रमादात् तु पुनरावृत्तान्यनन्तरैः पुनरप्रतिपतितैरिति / अत एव प्रागुक्तमस्माभिः कर्मक्लेशेषु न विश्वसितव्यमिति / ज्ञानपञ्चकत्वादाह-मतिश्रुतावधिभिः, तेषामप्येकैकशःशुद्धितारतम्यसद्भावादाह-त्रिभिरपि शुद्धयुक्तः त्रिभिरपीति, विशुद्धिमेव विशेषयति, त्रीण्यपि शुद्धानि नैकं देवेति, अन्यथा त्रिकं कण्ठोक्तमेव / युक्तः, सहितः, सम्पन्नः, युक्तग्रहणात् तु नान्यत् ज्ञानमाशङ्कितव्यम् , उक्तसलिलखच्छता(भा)वाप्तिवत्, वक्ष्यते च समाधिः शास्त्रे, किं पुनरिथमिसाह-शैत्यद्युतिकान्तिभिरिवेन्दुः, युक्त इति वर्तते, यथा हीन्दुः शैत्यादिभिरविरहितः क्षेत्रात् क्षेत्रान्तरं यात्येवमसावपि अप्रतिपतितज्ञानत्रयो देवभवादिहागत इति // 12 // तस्य जातस्य किं खरूपमित्याहशुभसारसत्त्वसंहन-नवीर्यमाहात्म्यरूपगुणयुक्तः / जगति महावीर इति, त्रिदशैर्गुणतः कृताभिख्यः // 13 ॥आर्या व्या०-शुभसारेत्यादि। अयं सारशब्दोऽस्ति तावद् बाहुल्ये, त्वक्सारो वेतसः,अस्ति 'सार'शब्दस्य अर्थविविधता द्रढिम्नि सारकाष्ठः खदिरः, अस्ति परिविसाशवस्या स्तरे एतत्सारोऽयं मनुष्यः, अस्ति क्षेपे वाक्सारो भवान्, अस्ति प्राधान्ये सारोऽयमत्र गृहे, अस्ति सुखे अत्रैव वक्ष्यति निःसारः संसार इति, इह तु
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy