________________ 238 तत्त्वार्थाधिगमसूत्रम् [अव्यायः 3 एतदेव विवृणोति-एते सूत्रोपात्ता लेश्यादयो भावा नैरन्तर्येणाविच्छेदेन पौनःपुन्येनाभवक्षयादुद्वर्तनकालावधिका भवन्ति, भवक्षये हि सति ते उद्वर्तन्ते, अन्तराले नास्ति जीवितक्षय इत्यावेदयति / नैरन्तर्यार्थ पुनः स्पष्टयति-लोचननिमेपप्रमितमपि कालमशुभेन नास्ति तेषां वियोगः, किमु बहुतरकमिति दर्शयति / अथवैतावन्तमेव कालमशुभास्ते लेश्यादयः स्युरिदमपि नास्तीत्यतो नित्यास्त उच्यन्ते / नन्वेवं विधे नित्यशब्दार्थेऽनुपपन्नमाभीक्ष्य स्यात् , तिरोधानपूर्वकः प्रादुभोवः पुनः पुनराभीक्ष्ण्यशब्दार्थः, इह तु नैरन्तर्यण व्याख्यातमा. भवक्षयादिति, उच्यते-तावेव हि तिरोधानाविर्भावौ विशेष्येते नैरन्तर्येण, तौ हि निर्व्यवधानी भवतः सर्वकालमेव तेषाम्, अथ 'तभावाव्ययं' (अ० 5, मू०३०), नित्यलक्षणमपि सम्बद्धुं शक्यते, न कश्चिदपराध इति / भा०-अतोऽशुभतरलेश्याः / कापोतलेश्या रत्नप्रभायाम् ततस्तीव्रतरसनालया क्लेशाध्यवसाना कापोता शर्कराप्रभायाम् / ततस्तीवतर सङ्केशाध्यवसाना कापोतनीला वालुकाप्रभायाम् / ततस्तीत्रतरसङ्क्तशाध्यवसाना नीला पङ्कप्रभायाम् / ततस्तीव्रतरसङ्क्लेशाध्यवसाना नीलकृष्णा धूमप्रभायाम् / ततस्तीव्रतरसङ्क्लेशाध्यवसाना कृप्या तनःप्रभायाम् / ततस्तीव्रतरसक्लेशाध्यवसाना कृष्णैव महातमःप्रभायामिति / / टी--अतोऽशुभतरलेश्या इत्यादि / आद्यास्तिस्रोऽशुभलेश्यास्ताः सप्तस्वपि पृथिवीषु प्रकृष्टतया विभज्यन्ते क्रमवपरीत्येन, तेषां हि मानसपरिणामो लेश्या, स तीवस्तीव्रतरस्तीव्रतम इत्यशुभाभिभूतत्वाद् भवति, तत्र प्रथमायां कापोता तीव्रा, शर्कराप्रभायां सैव तीव्रतरा, तीव्रतमा च कापोता तीवा च नीला वालुकाप्रभायाम, पङ्कनभायां नीला तीव्रतग, धूमप्रभायां नीला तीव्रतमा कृष्णा च तीत्रा, तमःप्रभायां कृष्णा तीव्रतरा, महातमःप्रभायां कृष्णैव तीव्रतमा। अपरे मन्यन्ते-नारकाणां पडपि . लेश्याः सम्भवन्ति, सम्यक्त्वप्रतिपत्तेरिति // भा०-अशुभतरपरिणामः / बन्धन-गति-संस्थान-भेद-वर्ण-गन्ध-रस-स्प - गुरुलघुशब्दाख्यः, दशविधोऽशुभः पुद्गलपरिणामः, नरकेषु नारकाणां पुद्गलपरिणामः मपुर- अशुभतरश्च / तियर्गवमधश्च सर्वतोऽनन्तेन भयानकेन नित्यो. त्तमकेन तमसा नित्यान्धकाराः श्लेष्म-मूत्र-पुरीप-स्रोतो-मलसाधर-वसा-मेद-पूधानुलेपनतलाः / श्मशानमिव पूति-मांस-केशास्थि-चर्म दन्तनखास्तीर्णभूमयः / श्व-शृगाल-मार्जार नकुल-सर्प-मूषिक-हस्त्यश्व-गो-मानुष शवकोष्ठाशुभतरगन्धाः / हा मातः! धिगहों कष्टं बत मुञ्चतं धावत प्रसीद भतः! मा वधीः कृपणकमित्यनुवन्धरुदितस्तीबकरुणैः दीनविक्लवैर्विलापैरार्तस्वननिनादै. 1 'अतः' इति घ-पुस्तके नास्ति / 2 'अधोऽधः' इत्यधिको घ-पाठः / 3 'मुञ्च तावत् धावत' इति घ-पाठः /