________________ सूत्रं 3 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 237 दिकालसन्निवेशिनः पृथुपापविपाकभाजां सत्चानामाश्रयाः वज्रकुडयमयोः नित्यान्धतमसाश्च वेदितव्याः / विशेषार्थिना चावलिकाप्रविष्टवृत्तव्यस्रचतुरस्रयत्तापरिज्ञानाय देवेन्द्रनरकेन्द्रकप्रकरणमपेक्षणीयमिति // 2 // किश्चान्यत् / सूत्रम्-तेषु नारका नित्याशुभतरलेश्यापरिणामदेहवेदना विक्रियाः // 3-3 // टी०-तेषु व्यावर्णितलक्षणेषु, नरकेषु भवा नारकाः / नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः, अथवोभयमाक्षिप्यतेऽनेन नरकाः नारकाच, तेषु नित्याशुभेत्यादि सूत्रम्, इह सूत्रे नरका नारकाश्च उभये परिगृह्यन्ते, प्रस्तावान्नरका लेश्यादेहवेदनाविक्रियासम्भवान्नारकाः, नित्यशब्दोऽभीक्ष्णवचनो नित्यग्रहसितादिवत्, नित्याशुभतरलेश्यादयो येषु येषां वा ते नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः॥ . भा०-ते नरका भूमिक्रमेणाधोऽधो निर्माणतोऽशुभतराः। अशुभा रत्ननरकनारकाणां प्रभायाम्, ततोऽशुभतराः शर्करामभायाम्, ततोऽप्यशुभतरा स्वरूपर वालुकाप्रभायाम्, इत्येवमासप्तम्याः // टी-ते नरका इत्यादि भाष्यम् / प्राक्तनसूत्रनिरूपिताः सर्वनामशब्देनात्र गृह्यन्ते नरकाः सीमन्तकादयोऽप्रतिष्ठानपर्यन्ताः,रत्नप्रभादिभूकमेणाधोनिमोणतःसंस्थाननिवृत्तः, अशुभतरा भयानकाः, अशुभा रत्नप्रभायामधस्तनीष्वशुभतरा अशुभतमाश्चेत्यासम्याः / एतद भाष्यकारेण सामान्यतो युक्तमेव व्याख्यातम्, न पुनरशुभग्रहणमस्ति सूत्रे, पञ्चाशुभतरग्रहणं तल्लेश्यादिभिः सम्बद्धम्, अतःसामान्यव्याख्यानमिदं प्रतिपत्तव्यम्, एकेशेषनेर्देशाद वा सिद्धम् // सम्प्रति नित्यार्थमाचष्टे भा०-नित्यग्रहणं गतिजातिशरीराङ्गोपाङ्गकर्मनियमादेते लेश्यायो मावा नरकगतो नरकंजातौ च नैरन्तर्येणाभवक्षयोदर्तनाद् भवन्ति, न च कदाचेदक्षिनिमेषमात्रमपि, नॅ शुभा वा भवन्तीत्यतो नित्या उच्यन्ते / ___टी-नित्यग्रहणं गतिजाति नियमादेत लेण्यादय इत्यादि / नित्यशब्दोपानिमत्र नरकगतिनरकपञ्चेन्द्रियजात्योर्नियमादशुभतरलेश्यादिभिः सम्बन्धप्रतिपादनार्थम्, 'वज्र कुम्भमयाः' इति क-पाठः / 2 'तेषु नारका' इति घ-पुस्तके नास्ति / 3 'नारका' इति क-पाठः / 4 'सप्तम्याम्' इति ग-टी-पाठः। 5 'एकदेशानिर्देशाद्', 'एकदेशनिर्देशाद्' इति क-ख-पाठः। 6 नरकपञ्चेन्दियजातौ' इति घ-पाठः / 7 'न भवन्ति शुभा' इति घ-पाठः। 8 इत्युच्यन्ते इति घ-पाठः।