________________ 438 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 5 दीपक्षीरादिषु न, स्वजात्यनुच्छेदात , कश्चित् पर्यायोऽपैत्यपरः प्रादुरस्ति पुद्गलचैतन्यजात्यनुच्छेदेन तस्य, तस्य तथाभावः परिणामः, सोऽन्यत्वदुर्बुद्धेः कारणम् , उत्फणविरुणकुण्डलप्रसारितानेकावस्थसपेवदेकमन्वयि तत् परिणमते, न तु पूर्वोच्छेदेन सवेथाऽन्यस्योत्पाद इति पूर्वोक्तेन विधिना प्रपञ्च्यम्, वृत्यक्षगण्यपि क्षणभङ्गनिरासद्वारेण समर्थनीयानीति / अथवा कैश्चित् परिणामलक्षणमुक्तम्-"अवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तिधर्मान्तरप्रादुर्भावश्च परिणाम" इति, तदपाकरणायावाचि तद्भावः परिणामः, तत्रावस्थितं यदि कूटस्थ विवक्षितम् , ततस्तस्य ये धर्मा उत्पादविनाशलक्षणास्तदाकारेण तन्नोत्पद्यतेऽस्थितत्वादेव, तादृगप्यस्तीति श्रद्धया प्रतिपत्तव्यम् , धर्मा एवोत्पद्यन्ते विनश्यन्ति वा व्यतिरेकिणः, अथा. नन्ये द्रव्याद् धर्मास्ततो धर्मोत्पादे धर्मविनाशे चानन्यत्वादेव द्रव्येणापि तथैव भवितव्यमिति नास्त्यवस्थितत्वम् , अतस्तद्भावलक्षण एव परिणामोऽभ्युपेयः, तदेव हि द्रव्यं तथा भवति, गुणो वा स्वभावः स्वतत्त्वं परिणामः परिणामिनो द्रव्यस्येति निरवयं परिणामलक्षणमिति // 41 // स द्विविध इत्यादिना सम्बन्ध कथयति, स एप परिणामोऽनन्तरसूत्रोक्तो याथात्म्योपलब्धिनिमित्तत्वाद् द्वे विधे यस्यासौ द्विविधः / के पुनस्ते इत्याह सूत्रम्---अनादिरादिमांश्च // 5-42 // टी--अविद्यमान आदिरस्यासावनादिः-अविद्यमानप्रथमारम्भः परिणामा, यसात पूर्व नास्ति परमस्त्यादिः स तद्वान् यः स आदिमान्-प्रथमारम्भप्रवृत्तिः, चशब्दः परिणामेयत्तोपसंहारार्थः समुच्चयार्थो वा / क पुनरयं परिणामोऽनादिः क चासावादिमानिति विभागेन निरूपयति भा०-तत्रानादिररूपिषु धर्माधर्माकाशजीवेष्विति // 42 // टी-तत्रानादिरित्यादि / तत्र-तयोरनाद्यादिमतोः परिणामयोः, अनादिरपिषु परिणामो धर्माधर्माकाशजीवेषु, क्रियापदाध्याहाराद् भवति / इतिशब्दोऽभ्युच्चयार्थः / कालद्रव्ये चानादिपरिणामः, तत्र धर्मद्रव्यपरिणामोऽनादिरसङ्ख्येयप्रदेशवचं लोकाकाशव्यापित्वममूर्तत्वं गन्तुगत्यपेक्षाकारणत्वेनागुरुलधुत्वमित्यादिः, अधर्मद्रव्यस्य तु स्थातृस्थित्यपेक्षाकारणत्वं विशेषः, शेपं समानम् , आत्मनोऽप्येते वाऽपेक्षाकारणरहिताः, अन्ये च जीवत्वभव्यत्वाभव्यत्वादयः परिणामाः, स्वस्यानन्तप्रदेशत्वममूर्तत्वमगुरुलघुपर्यायत्वमवगाहकावगाहृदातृत्वमित्यादिः, कालस्य वतमानादिः परिणाम इत्येवममूर्तद्रव्येषु, रूपशब्दो मूर्तिवचनो मूर्तिश्च रूपरसगन्धस्पर्शा इति / / 42 // अथ रूपिषु मूर्तिषु परमाण्वादिषु किमनादिः परिणाम आहोस्विदादिमानित्यत. आह १'न्यत्वबुद्धेः' इति गं-पाठः /