________________ 130 तत्वार्थाधिगमसूत्रम् [ अध्यायः 1 तस्य वा देशप्रदेशाविति / एवं तावन्नैगमादयश्चतुर्यु जीव इत्यादिषु विकल्पेषु प्रवृत्ताः, एवम्भूतस्तु नैवं प्रतिपद्यते, कथं तीति चेदुच्यते भा०-एवम्भूतनयेन तु जीव इत्याकारिते भवस्थो जीवः प्रतीयते / कस्मात् / एष हि नयो जीवं प्रत्यौदयिकभावग्राहक एव / जीवतीति जीवः, प्राणिति प्राणान् धारयतीत्यर्थः। तच्च जीवनं सिद्धे न विद्यते, तस्माद् भवस्थ एव जीव इति / नोजीव इत्यजीवद्रव्यं सिद्धो वा / अजीव इत्यजीवद्रव्यमेव / नोअजीव इति भवस्थ एव जीव इति / टी-एवम्भूतेत्यादि / एवम्भूतनयेन जीव इत्युचरिते भवस्थो जीवः प्रतीयते, भवः-संसारश्चतुर्विधस्तस्मिन् स्थितो भवस्थः-संसारिजीवः प्रतीयते / कस्मात् सिद्धिस्थं त्यजतीति चेत् ? उच्यते-एष हीत्यादि, एवं यस्मादेवम्भूतनयो जीवं प्रत्येवं प्रवर्ततेय एव औदयिकेन गतिकषायादिस्वभावेनावस्थाविशेषेण युक्तस्तस्यैव ग्राहकः-तमेवौदयिकभावयुक्तं जीवमिच्छति, यतः शब्दार्थ एवमवस्थितो 'जीव प्राणधारणे' जीवतीति जीवः / किमुक्तं भवति ? प्राणितीति, 'अन प्राणने' इति वाऽस्यार्थे, जीव इत्यस्य च धातोः सकर्तृकत्वं कथयति प्राणान् धारयतीति / प्राणाः-इन्द्रियाणि, मनोवाक्कायास्त्रयः, प्राणापानौ एकः आयुश्च तान् धारयति न मुञ्चति यावत् तावदसौजीव इति मन्तव्यः, एतत् स्याद इन्द्रियादयः प्राणाः सिद्धेऽपि सन्ति, तन्न, सिद्धे हि सर्वकर्मापगमान्न सन्तीन्द्रियादयः प्राणा इत्येतदाह-तच्च जीवनमित्यादि / तदिति शब्दार्थतया जीव इत्यस्य जीवनं-प्राणधारणं सिद्धे-मोक्षप्राप्ते नास्ति, तस्माद् भवस्थ एव संसार्येव जीवः, न सिद्ध इति / तथा नोजीव इत्युच्चरिते नोशब्दः सर्वप्रतिषेधक एव, देशस्याभावात् , देश्येव देशो न वस्त्वन्तरं, न च देशिनो देशो भिन्न इत्यभिधातुं युक्तम् , यदि हि भिन्नः स्यात् नासो तस्य, भिन्नत्वाद् वस्त्वन्तरवत् , अथाभिन्नः देश्येव तद्यस्ति न कश्चिद् देशो नामेत्यतः सर्वप्रतिषेधको नोशब्दोऽतः नोजीव इत्युक्ते जीवादन्यद् वस्तु सम्पूर्ण परमाणुप्रभृति प्रतीयते, तदाह-नोजीव इति अजीवद्रव्यमेव सिद्धो वा, प्राणधारणस्याभावात् , सोऽपि निर्जीव एवेति, अतः सिद्धो वा गम्यते / अजीव इति तूचरिते अजीवद्रव्यमेव परमाण्वादिकं, सर्वप्रतिषेधकत्वादकारस्य प्रतीयते / नोअजीव इत्युक्ते 'प्रतिषेधौ द्वौ प्रकृतं गमयतः' इति भवस्थः-संसार्येव जीवो गम्यते // अथ कस्मानोजीव इत्यस्मिन् विकल्पे नोअजीव इत्यस्मिन् वा देशप्रदेशौ न गम्येते ? / उच्यते-देशप्रदेशयोरनभ्युपगमादनेन नयेनेति, एतदाह भा०–समग्रार्थग्राहित्वाचास्य नयस्य नानेन देशप्रदेशौ गृह्यते / एवं जीवौ जीवा इति द्वित्वबहुत्वाकारितेष्वपि, सर्वसङ्ग्रहणे तु जीवो, नोजीवः / १'एष स्यादेवंभूत ' इति क-ख पाठः। २'प्रत्येवं ' इति ख-पाठः, प्रतीत्येवं इति ग-पाठः /