________________ सूत्र 35 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 131 अजीवो नोअजीवो जीवौ नोजीवा अजीवी नोअजीवौ इत्येकत्वद्वित्वाकारितेषु शून्यम् / कस्मात् // ___टी०-समग्रार्थेत्यादि / समग्रः-सम्पूर्णः अर्थो-वस्तु सम्पूर्ण वस्तु समग्रार्थः तं ग्रहीतुं शीलमस्य समग्रार्थग्राही, सम्पूर्णमेव हि वस्तु गृह्णातीत्ययं नयः, न देशं प्रदेशं वा, समग्रार्थग्राहिणोभावस्तथावर्तिता समग्रार्थग्राहित्वम् अतोनानेनैवम्भूतनयेन देशप्रदेशो स्थूलसूक्ष्मावयवात्मकौ गृह्यते / एवं तावञ्चत्वारो विकल्पा एकवचनेन दर्शिताः, यथा चैकवचनेन दर्शिताः एवं द्विवचनेन चत्वारो विकल्पा नेयाः, जीवौ 1 नोजीवौ 2 अजीवौ 3 नोअजीवी 4, तथा च बहुवचनेनापि चत्वार एव, जीवाः 1 नोजीवाः 2 अजीवाः 3 नोअजीवा 4 नेयाः, एकवचनप्रतिपत्त्येव, केवलं तु द्विवचन बहुवचनं वा विशेष इत्येतदाह एवं जीवा जीवा इति / इतिशब्द आद्यार्थः, द्वित्वबहुत्वाकारितेषु-द्विवचनबहुवचनाभ्यामुच्चारितेषु एवमेवाभ्युपगमो नैगमादीनाम् / / अथैतांश्चतुरो विकल्पान् सङ्ग्रहनयः कथमभ्युपैतीति? / उच्यतेसर्वसङ्ग्रहेणेत्यादि / सर्वसङ्ग्रहेण सामान्यवस्तुग्राहिणा एकवचनद्विवचनान्ता विकल्पा नाभ्युपगम्यन्ते, तांश्च विकल्पान् दर्शयति--जीवी नोजीव इत्यादिना / एकद्विवचनान्तेषञ्चरितेषु शून्यं भवतीति, नास्येवं काचित् प्रतिपत्तिरस्तीत्यर्थः। कस्मान्नास्तीति चेत् ? उच्यते___ भा...एष हि नयः सङ्ख्यानन्त्याज्जीवानां बहुतमेवेच्छति यथार्थग्राही / शंषास्तु नयाः जात्यपेक्षमेकस्मिन् बहुवचनत्वम् , बहुषु च बहुवचनं सर्वाकारितग्राहिण इति / एवं सर्वभावेषु नयवादानुगमः कार्यः / टी०----एष हीत्यादि / एपः-सङ्ग्रहो यस्मात् सङ्ख्याया जीवगताया आनन्त्यं प्रतिपद्यते, जीवानां पञ्चगतिवर्तिनां बहुत्वमेवेतिकृत्वा बहुवचनान्तानेव विकल्पान् समाश्रयते / अयं विशेपोऽनेन प्रतिपन्नो देशमङ्ग्रहव्यवहारादिभ्यः, भावना तु तद्वदेव, जीवा इत्युक्ते पञ्चस्वपि गतिषु वर्तमानानाश्रयति, नोजीवा इत्यजीवास्तेषां च देशप्रदेशानिति, अजीवा इति तु अजीवद्रव्याणि पुद्गला इति, नोअजीवा इति जीवानेव तेषां च देशप्रदेशानिति / अस्यैव बहुवचनान्ता प्रतिपत्तिः, शेषास्तु नैगमादयो नया एकद्विबहुवचनान्तानप्याश्रयन्ति एतान् विकल्पान् , यदा च जीवशब्दस्य एकोऽर्थो वाच्यो भवति तदैकत्वादेकवचनम् , यदापि च सामान्यं वाच्यं तदापि चैकत्वात् एकवचनप्राप्तौ सत्यां बहुवचनमन्विच्छन्ति नैगमादयः / कथमिति चेत् ? उच्यते-जात्यपेक्षं जातिः-सामान्यरूपा तामपेक्षतं यत् जान्यपेक्षं बहुवचनम् , एकस्मिन्नपि पदार्थेऽभिधेये "जात्याख्यायामेकस्मिन बहुवचनमन्यतरस्याम्" (पा०अ०१,पा०२,१०५८) इत्येनेन लक्षणेन / यदा पुनर्बहव एव अभिधेया जीवशब्दस्य प्राणिनस्तदा नैव बहुवचनं "जात्याग्व्यायामेकस्मिन बहुवचनमन्यतरस्याम्" उत्पादयन्ति, किन्तु लक्षणान्तरेण, तल्लक्षणं दर्शयति-"बहुपु चैव बहुवचनं भवति" 1 'न्यस्तं कस्मात्' इति क-ख-पाठः। 2 'नयवादाधिगमः' इति घ-पाठः