________________ 132 तत्वार्थाधिगमसूत्रम् [ अध्यायः 1 इत्यनेन, अतः सङ्ग्रहो बहुवचनान्तानेव विकल्पानाश्रयति, शेषास्तु नया एकवचनबहुवचनान्तानप्याश्रयन्तीत्येतदाह-सर्वाकारितग्राहिण इति / सर्ववचनैरेकवचनादिभिराकारितानेतान् विकल्पान् गृहन्ति तच्छीलाश्च सर्वाकारितग्राहिण इति / सम्प्रति ग्रन्थगौरवं मन्यमान एकत्र च विकल्पानां दार्शतत्वादन्यत्र सुखेन ज्ञास्यतीत्येतदतिदिशति–एवं सर्वभावेष्वित्यादिना / सर्वभावेषु-सर्वार्थेषु धर्मास्तिकायादिषु नयवादानुगम इति नयवादेनानुगम-अनुसरणं-निभालनं कार्य तत्वान्वेषिणा पुंसा॥ एवं तावत् प्रमेयेण नयानां विचारः कृतः / सम्प्रति प्रमेयपरिच्छेदवे.प्रमाणेषु को नयः कथं प्रवर्तते इत्यस्मिन्नवसरे पर आह भा०-अत्राह-अथ पंञ्चानां सविपर्ययाणां कानि को नयः समाश्रयत इति ? / अत्रोच्यते टी--अथ पञ्चेत्यादि / अथेत्येतस्माद् विचारादनन्तरं पञ्चानां मत्यादीनां शानाज्ञानेषु ज्ञानानां ज्ञेयस्वतत्वतया ग्राहकाणां सविपर्ययाणामिति सह विपर्यनयविचार येण अज्ञानस्वभावेन यानि वर्तन्ते तेषां सविपर्ययाणां कानि मत्यादीनि को नयो नैगमादिः श्रयते-अभ्युपगच्छति ? / अत्रोच्यते भा०-नैगमादयस्त्रयः सर्वाण्यष्टौ श्रयन्ते, ऋजुसूत्रनयो मतिज्ञानमत्यज्ञानवोनि षट् // ____टी०- नैगमादिनयास्त्रयः-नैगमसङ्ग्रहव्यवहाराः सर्वाणि निरवशेषाणि, कियन्तीति चेदुच्यते-अष्टी, मतिज्ञानं, मत्यज्ञानं, श्रुतज्ञानं, श्रुताज्ञानं, अवधिज्ञानं, विभङ्गज्ञानं, मनःपर्यायज्ञानं, केवलज्ञानमष्टमम् / एतान्यष्टावपि यतोऽर्थ परिच्छिन्दन्ति, अतोऽभ्युपगच्छन्त्यष्टावपि / ऋजुसूत्रः पुनः षडेषां मध्ये श्रयते, मतिज्ञानमत्यज्ञानवर्जानि षट्, मति मत्यज्ञानं च नाभ्युपैति / ___ भा०-अत्राह-( अथ ) कस्मात् मतिं सविपर्ययां न श्रयत इति / अत्रोच्यते-श्रुतस्य सविपर्ययस्योपग्रहत्वात्, शब्दनयस्तु द्वे एव श्रुतज्ञान केवलज्ञाने श्रयते // टी-अत्राह-अथ कस्मात् मतिं सविपर्ययामिति मत्यज्ञानसहितामित्यर्थः न श्रयते नेच्छतीति ? / अत्रांच्यते-यस्मान्मतिमत्यज्ञाने श्रुतज्ञानस्य सविपर्ययस्येति श्रुताज्ञानसहितस्य उपग्रहं कुरुतः। कथमिति चेदुच्यते-यदेतदिन्द्रियजं चक्षु. रादिभ्य उपजातं तद् हि अवग्रहणमात्रेण प्रवर्तमानं न वस्तुनो निश्चयं कर्तुमलम् , यदा श्रुतज्ञानेनासावालोचितोऽर्थो भवति तदा यथावन्निश्चीयते इति, तस्मात् तदेवाभ्युपगन्तव्य श्रुतज्ञानं, किं मतिज्ञानेन ? इत्येवं श्रुतस्योपग्रहकरत्वात् न मतिज्ञानं सविपर्ययमाश्रीयते / शब्दनयस्तु भावार्थावलम्बी वे एव नान्यत् ताभ्यामित्युक्तम् , के ते ? उच्यतेश्रुतज्ञानालज्ञाने / अत्र शब्दमते परोऽसूयया ब्रूते