________________ सूत्रं 35] स्वोपज्ञभाष्य-टीकालङ्कृतम् 133 भा०-अत्राह-अथ कस्मान्नेतराणि श्रयत इति ? / अत्रोच्यते-मत्यवधिमनःपर्यायाणां श्रुतस्यैवोपग्राहकत्वात् , चेतनाज्ञस्वाभाव्याच सर्वजीवानां नास्य कश्चिन्मिथ्यादृष्टिरज्ञो वा जीवो विद्यते / तस्मादपि विपर्ययान न श्रयत इति / अतश्च प्रत्यक्षानुमानोपमानाप्तवचनानामपि प्रामाण्यमभ्यनुज्ञायत इति / / ___टी०-अथ करमान्नेतराणि मत्यादीनि श्रयते / अत्रोच्यते-मत्यवधिमनःपर्यापाणां श्रुतस्यैवागमानुरक्तस्य उपग्राहकत्वाद-उपकारकत्वात् , यतो मत्याद्यालोचितोऽर्थः न मत्यादिभिः शक्यः प्रतिपादयितुं मूकत्वान्मत्यादिज्ञानानाम् , अतस्तैरालोचितोप्यर्थः पुनरपि श्रुतज्ञानेनैवान्यस्मै स्वपरप्रत्यायकेन प्रतिपाद्यते, तस्मात् तदेवालम्बितुं युक्तं, नेतराणि / केवलज्ञानं तु यद्यपि मूकं तथाप्यशेषार्थपरिच्छेदात् प्रधानमितिकृत्वाऽवलम्व्यत एव, तथा विपर्ययं नाभ्युपैत्यस्मात् चेतनाज्ञस्वाभाव्याचेत्यादि, चेतना-जीवत्वं परिच्छेदकत्वसामान्यं गृह्यते, ज्ञ इत्यनेन तु विशेषपरिच्छेदिता ग्राह्या, तयोश्चेतनाज्ञयोः स्वाभाव्यं तथाभवनं तस्माचेतनाज्ञस्वाभाव्यात् सर्वजीवानां पृथिवीकायिकादीनां न विद्यते तेषां कश्चित् प्राणी मिथ्यादृष्टिः-अयथार्थपरिच्छेदी, सर्वे प्राणिनः स्वस्मिन् स्वस्मिन् विषये परिच्छेदकत्वेन प्रवर्तमानाः स्पर्श स्पर्श इत्येवं परिच्छिन्दन्ति रसं च रस इत्यादि, अज्ञो षा अज्ञानी वा, न कस्यचित् प्राणिनो ज्ञानमविद्यमान अस्य नयस्य मतेन / यथाऽभिहितम्'सव्वजीवाणंपि य णं अक्खरस्स अणंतो भागो निच्चुग्धाडितओ" (नन्दी० मू० 42), अत: सर्वे सम्यग्दृष्टयः सर्वे च ज्ञानिनः, अतो विपर्ययो नास्ति मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानरूप इति, अतः-अभावादेव विपययान् मत्यज्ञानादीन् नाश्रयते यतश्च छद्मस्थज्ञानानि सर्वाण्येव श्रुतेऽन्तर्भवन्ति, अतो यत् 'प्रत्यक्षमन्यत् ' (अ०१ सू०१२) इत्यस्मिन् सूत्रे प्रतिज्ञातं नगवादान्तरेण तु यथा मतिश्रुतविकल्पजानि भवन्ति तथा पुरस्ताद्वक्ष्याम इति तदुपपन्नम् , अस्मिंश्योपपन्ने सर्वप्राणिनां सम्यग्दृष्टित्वात् ज्ञानित्वाच्च सर्वज्ञानानां प्रामाण्यम्, तदाह-अतश्च प्रत्यक्षानु. मानोपमानाप्सवचनानामपि प्रामाण्यमभ्युपगतं भवति / उक्तं चैपां प्राक् स्वरूपं प्रत्यक्षादीनां, प्रमाणनयविचारमनन्तरं सकलं चाध्यायार्थमुपसंहरन कारिकाः पपाठ--- भा०-आह च--- प्रध्यायार्थोपसंहारः विज्ञायैकार्थपदान्यर्थपदानि च विधानमिष्टं च / विन्यस्य परिक्षेपात्, नयैः परीक्ष्याणि तत्त्वानि ॥१॥-आर्या ज्ञानं सविपर्यासं, त्रयः श्रयन्त्यादितो नयाः सर्वम् / सम्यग्दृष्टानं, मिथ्यादृष्टेर्विपर्यासः ॥२॥-आर्या ऋजुसूत्रः पटू श्रयते, मतेः श्रुतापग्रहादनन्यत्वात् / श्रुतकेवले तु शब्दः, श्रयते नान्यच्छ्ताङ्गत्वात् / / 3 ।।-आर्या 1 विपयेयो न धयत' इति ग-पाठः / 2 सर्वजीवानामपि चाक्षरस्यानन्तो भागो नित्योद्घाटितः / ३'श्रुतेन भवन्ति' इति ग-पाठः /