________________ 370 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः५ स्तिकः तदभिप्रायादैक्यम् , एवं विश्वपरिणामप्रपञ्चस्थितिभाजि द्रव्याणि स्वात्मन्यविद्यमानेरेव पर्यायतः कैश्चिद् धर्मैरुत्पद्यन्ते कैश्चिद् विद्यमानैरपि धमैर्विनश्यन्ति, कैश्चित्पुनरन्वयिमिः पर्यायैर्नित्यानि ध्रुवाण्येव सर्वद्रव्याणीति मौनीन्द्रदर्शनमनवद्यम् // सम्प्रति प्रस्तुतमनुश्रियते / द्विप्रदेशस्य स्कन्धस्य परमाण्वन्तरेण योगे त्रिप्रदेशस्कन्योत्पादः,चशब्दात् त्रयाणां च परमाणूनां सङ्घातपरिणामे त्र्यणुकस्कन्धस्योपजननम् / एवमित्या दिनाऽतिदेशं करोति // शीर्षप्रहेलिकास्थानपर्यन्तवर्ति द्विसङ्ख्योपक्रमं गणितम् , तत्राप्युक्तेन न्यायेन भावना कार्या, ततः परं गणितविषयातिक्रमादसख्येयो राशिः, तत्रापि संघातपरिणामभावना तुल्यैव, ततोऽप्यसङ्ख्येयादुपरि बहुबहुतरबहुतमपरमाणुप्रचयोऽनन्तकराशिः, तस्मिन्नपि संहतिपरिणतिभावना सदृश्येव, अनन्तानन्तानां चेत्यनेनानन्तकराशेरनन्तानि स्थानानि भवन्तीति प्रदर्शयति / एवं तावत् संघातात् परस्य प्रदेशाः स्कन्धतयोपजायन्त इति // अधुना द्वितीयं प्रकारं वक्तुकाम आहभा०-एषामेव भेदाद् द्विप्रदेशपर्यन्ताः॥ टी०-घणुकादिक्रमेणानन्तानन्तपरमाणुकपर्यवसानाः स्कन्धाः संघाताद ये समुत्रनास्तेषां पर्यन्तवर्तिनः स्कन्धादेकोऽणुर्यदा भिन्नः पृथग्भवति तदैकाणुभेदात् तन्न्युनः स्कन्धः समुत्पद्यते, एवं द्विव्यादिपरमाणुभेदक्रमेणाधोऽधो यावत् द्विप्रदेशस्कन्धोत्पाद इति भावनीयम् / भा०-एत एव च संघातभेदाभ्यामेकसामयिकाभ्यां द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते / अन्यसंघातेनान्यतो भेदेनेति // 26 // __ अत्राह-अथ परमाणुः कथमुत्पद्यते इति ? / अत्रोच्यते टी-एत एव चेत्यादिना तृतीयविकल्पभावना, बहुवचन निर्देशात् कृतैकशेषो निर्देशः, संघातश्च भेदश्च संघातभेदी संघातभेदौ च संघातभेदौ च संघातभेदाः, एत एवं ह्यनन्तरोत्ता यणुकादयः स्कन्धाः सङ्घातभेदाभ्यामेकसामयिकाभ्यां उद्भवन्ति, अवि. भागीयः कालः परमनिरुद्धश्च समयः स तत्रैकस्मिन् समये अभिन्नकाले घणुकस्कन्धादेकोऽणुर्भिद्यते परः संहन्यते समकमेवेत्यतः सयातभेदाभ्यामुत्पद्यन्ते, समये भवः सामयिकः, एकशब्दः समानाथोभिधायी, एकशब्दः समानार्थे, तद्यथा--'तेनैकदिक्' (पा० अ० 4, पा० 3, मू० 112 ) सुदाम्ना पर्वतेनैकदिगित्यण् / सौदामिनीति विद्युदेकदिक समानदिगित्यर्थः / समानः समयो ययोः सङ्घातभेदयोस्ताभ्यामेककालाभ्यामिति यावदिति, पाठान्तरं वा एकसामयिकाभ्यामिति, एवं घणुकादयोऽपि भाव्याः, अन्यस्य परमाणोः सङ्घातेनान्यतः स्कन्धाद् भेदेनेत्येवं स्कन्धात् कारणादुत्पद्यत इति प्रतिपादितम् / / 26 // एतदेव च ' इति क-ख-योर्भाध्ये टीकायां च पाठः। 2 सामायिकाभ्यां ' इति क-ख-पाठः / ३.अन्यस्य संघा.' इति घ-पाठः।